संस्कृत-शब्दकोशः

रथयात्रा रथाङ्गपाणि

रथाङ्ग

वाचस्पत्यम्

रथाङ्ग ||‍ न० अङ्ग्यते गम्यतेऽनेन अगि करणे घञ् ६ त० । १ चक्रे । रथाङ्गशब्दः वाचकत्वेनास्त्यस्य अच् । २ चक्र- वाके पुंस्त्री० अमरः स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

रथाङ्गं || क्ली (रथस्याङ्गम् ।)
चक्रम् । इत्यमरः ॥ (यथा, रघुः । ७ । ४१ । “रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ॥” रथावयवमात्रम् । यथा, महाभारते । १४ । ८२ । १३ । “ध्वजे पताकादण्डेषु रथयन्त्रहयेषु च । अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥” सुदर्शनचक्रम् । यथा, माघे । १ । २१ । “रथाङ्गपाणेः पटलेन रोचिषा- मृषित्विषः संवलिता विरेजिरे ॥”)


शब्दकल्पद्रुमः

रथाङ्गः || पुं, चक्रवाकपक्षी । इत्यमरः ॥ (यथा, नैषधे । १९ । ३५ । “विरहतरलजिह्वा बह्वाह्वयन्त्यतिविह्वला- मिह सहचरीं नामग्राहं रथाङ्गविहङ्गमाः ॥”)



Correction: