शब्दकल्पद्रुमः
रथी || [न्] पुं, (रथोऽस्यास्तीति । रथ् + इनिः ।)
रथस्वामी राजादिः । तत्पर्य्यायः । रथिकः २ रथिनः ३ । इत्यमरः । १ । ८ । ७६ ॥ रथा- रोही ४ रधी ५ रथिरः ६ । इति हेमचन्द्रः ॥ रथस्वामी ७ साराक्षः ८ । इति शब्दरत्ना- वली ॥ स्यन्दनारोहः ९ । इति जटाधरः ॥ (यथा, रघुः । ७ । ३७ । “पत्तिः पदातिं रथिनं रथेश- स्तुरङ्गसादी तुरगाधिरूढम् ॥”)