वाचस्पत्यम्
रदन || पु० रद—करणे ल्यु । १ दन्ते अमरः । भावे ल्युट् । २ विदारणे ।
शब्दकल्पद्रुमः
रदनः || पुं, (रद्यतेऽनेनेति । रद + करणे ल्युट् । रनतीति । रद् + ल्युर्वा ।)
दन्तः । इत्यमरः । २ । ६ । ९१ ॥ (यथा, हरिवंशे । १३० । ८७ । “रदनैः पन्नगरिपुं करेण शिरसा तदा । ऐरावतो गजपतिराजधान नदंस्तथा ॥” रद् + भावे ल्युट् ।)
उत्खनने, क्ली ॥