संस्कृत-शब्दकोशः

रदन रदनिन्

रदनच्छद

शब्दकल्पद्रुमः

रदनच्छदः || पुं, (रदनानां छद आच्छादकः ।)
ओष्ठः । अधरः । इत्यमरः । २ । ६ । ९० ॥ तस्य शुभाशुभलक्षणं यथा, —
“मांसलैश्च धनोपेता अवक्रैरधरैर्नृपाः । विम्बोपमैश्च स्फुटितैरोष्ठै रूक्षैश्च खण्डितैः । विवर्णैर्धनहीनाश्च दन्ता स्निग्धा घनाः शुभाः ॥” इति गारुडे ६६ अध्यायः ॥



Correction: