संस्कृत-शब्दकोशः

रदिन् रन्ज

रध

वाचस्पत्यम्

रध ||‍ हिंसने पाके च दि० पर० सक० । रध्यति ऌदित् अरन्धत् ऊदित् वेट् रधिता रद्धा ।


शब्दकल्पद्रुमः

रध || य ऊ ऌ हिंसने । पाके । इति कविकल्पद्रुमः ॥ (दिघा०-पर०-सक०-वेट् ।)
य, रध्यति । ऊ, रधिष्यति रत्स्यति । ऌ, अरन्धत् । इति दुर्गा- दासः ॥



Correction: