संस्कृत-शब्दकोशः

रन्ध्रबभ्रु रप

रन्ध्रवंश

वाचस्पत्यम्

रन्ध्रवंश ||‍ पु० रन्ध्रबहुलो वंशः शाक० त० । (तलतावाँश) वंश- भेदे । “वंशौ त्वम्लौ कषायौ च किञ्चित्तिक्तौ च शीतलौ । मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ । विशेषात् रन्ध्र- वंशस्तु दीपनोऽजीर्णनाशकः । रुचिकृत् पाचनो हृद्यः शूलघ्नो गुल्मनाशनः” राजनि० ।


शब्दकल्पद्रुमः

रन्ध्रवंशः || पुं, (रन्ध्रविशिष्टो वंशः ।)
छिद्रयुक्त- वंशः । फाँफावाँश इति भाषा । तत्पर्य्यायः । त्वक्सारः २ कीचकाह्वयः ३ मस्करः ४ वाद- नीयः ५ शुषिरास्यः ६ । अस्य गुणाः । “वंशौ त्वम्लौ कषायौ च किञ्चित्तिक्तौ च शीतलौ । मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ ॥ विशेषो रन्ध्रवंशस्तु दीपनोऽजीर्णनाशकः । रुचिकृत् पाचनो हृद्यः शूलघ्नो गुल्मनाशनः ॥” इति राजनिर्घण्टः ॥



Correction: