वाचस्पत्यम्
रब || गतौ सक० प० शब्दे अक० आ० भ्वा० सेट् इदित् । रम्बति ते अरम्बीत् अरम्बिष्ट ।
शब्दकल्पद्रुमः
रब || इ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
इ, रम्ब्यते । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
रब || इ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ॥)
शब्दकल्पद्रुमः
रबः || पुं, शब्दः । रबधातोर्भावेऽल्प्रत्ययेन निष्पन्नः ॥ (यथा, राजतरङ्गिण्याम् । ५ । ४०८ । “सुप्तस्तटाद्ध्रदे भ्रष्ट इव निद्रालसेक्षणः । प्रबुद्धः शस्त्रपातैः स व्यमुचद् भैरवान् रबान् ॥”)