संस्कृत-शब्दकोशः

रमल रमाधव

रमा

वाचस्पत्यम्

रमा ||‍ स्त्री रमयति रम—अच् । १ लक्ष्म्याम् मेदि० २ कल्कि- भार्य्यायां कल्किपु० । ३ शोभायां राजनि० ।


शब्दकल्पद्रुमः

रमा || स्त्री (रमयतीति । रम् + णिच् + अच् । टाप् च ।)
लक्ष्मीः । इति मेदिनी । मे, २५ ॥ (यथा, भागवते । ३ । ९ । २३ । “एष प्रसन्नवरदो रमयात्मशक्त्या यद्यत् करिष्यति गृहीतगुणावतारः ॥” यथा च । “रमा यत्र नवाक् तत्र यत्र वाक् तत्र नो रमा । ते यत्र विनयो नास्ति सा च सा च स च त्वयि ॥” इत्युद्भटः ॥)
शशिध्वजराजकन्या । सा कल्किदेवेन विवा- हिता । यथा, —
“ततः शशिध्वजो राजा युद्धादाहूय पुत्त्रकान् । सुशान्ताया मतिं बुद्ध्वा रमां प्रादात् स कल्कये ॥” इति कल्किपुराणे २५ अध्यायः ॥ शोभा । इति राजनिर्घण्टः ॥ (गङ्गा । यथा, काशीखण्डे । २९ । १४५ । “रेवती रतिकृद्रम्या रत्नगर्भा रमा रतिः ॥”



Correction: