शब्दकल्पद्रुमः
रमाधवः || पुं, (रमाया लक्ष्म्या धवः पतिरिति ।) श्रीकृष्णः । यथा । रमाधवः पूज्यो माधवत्वात् । इत्यवयवग्रन्थे जगदीशः ॥