संस्कृत-शब्दकोशः

रम्भा रम्भोरू

रम्भातृतीया

वाचस्पत्यम्

रम्भातृतीया ||‍ स्त्री रम्भा गौरी ६ त० १ मार्गशीर्षशुक्लतृतीयायाम् उपचारात् तत्र कर्त्तव्ये गौरीपूजाङ्गके २ व्रतभेदे च ।


शब्दकल्पद्रुमः

रम्भातृतीया || स्त्री (रम्भाख्या तृतीया ।)
व्रत- विशेषकालः । यथा, — ब्रह्मोवाच । “रम्भातृतीयां वक्ष्ये च सौभाग्यश्रीसुतादिदाम् । मार्गशीर्षे सिते पक्षे तृतीयायामुपोषितः ॥ गौरीं यजेद्विल्वपत्रैः कुशोदादः करम्भदः । कदम्बादो गिरिसुतां पौषे मरुवकैर्यजेत् ॥ कर्पूरादः कृशरदो मल्लिकादन्तकाष्ठकृत् । माघे सुभद्रां कह्लारैर्घृताशो मण्डकप्रदः ॥ गीतीमयं दन्तकाष्ठं फाल्गुने गोमतीं यजेत् । कुन्दैः कृत्वा दन्तकाष्ठं जीवाशः सस्कुलीप्रदः ॥ विशालाक्षीं दमनकैश्चैत्रे काशारसंप्रदः । दधिप्राशो दन्तकाष्ठं तगरं श्रीमुखीं यजेत् ॥ वैशाखे कर्णिकारैश्च अशोकाशो वटप्रदः । ज्यैष्ठे नारायणीमर्च्चेच्छतपत्रैश्च खण्डदः ॥ नवङ्गाशश्च तज्जाद आषाढे माधवीं यजेत् । तिलाशो विल्वपत्रैश्च क्षीरान्नवटकप्रदः ॥ औडुम्बरं दन्तकाष्ठं तगर्य्याः श्रावणे श्रियम् । दन्तकाष्ठं स्वर्णकाशः क्षीरदो ह्युत्तमां यजेत् ॥ पद्मैर्यजेत् भाद्रपदे शृङ्गोदाशो गुणादिदः । राजपुत्त्रीञ्चाश्वयुजे जवापुष्पैश्च जीवकम् ॥ प्राशयेन्निशि नैवेद्यैः कृशरैः कार्त्तिके यजेत् । जातिपुष्पैः पद्मजाञ्च पञ्चगव्याशनो यजेत् ॥ घृतोदनञ्च वर्षान्ते सपत्नीकान् द्विजान् यजेत् । उमामहेश्वरं स्वार्णं लवणे तु गुडे स्थितम् ॥ वस्त्रच्छत्रसुवर्णाद्यै रात्रौ च कृतजागरः । गीतवाद्यैर्ददेत् प्रातर्गवाद्यं सर्व्वमाप्नुयात् ॥” इति गारुडे १२० अध्यायः ॥ * ॥
अपि च । “अथ तृतीया । सा चतुर्थीयुता रम्भाव्रतेतरदैवकर्म्मसु ग्राह्या । ‘रम्भाख्यां वर्ज्जयित्वा तु तृतीयां मुनिसत्तम । अन्येषु सर्व्वकार्य्येषु गणयुक्ता प्रशस्यते ॥’ इति ब्रह्मवैवर्त्तात् ॥ ततश्च युग्मवाक्यं रम्भाव्रतपरम् । भविष्योत्तरे । ‘कुरुष्व भद्रे यत्नेन रम्भाख्यं व्रतमुत्तमम् । ज्यैष्ठे शुक्लतृतीयायां स्नातनियमतत्परा ॥’ रम्भाख्यमिति रम्भया कृतमिति रम्भाव्रतम् ।” इति तिथ्यादितत्त्वम् ॥



Correction: