शब्दकल्पद्रुमः
रम्भा || स्त्री (रभि + अच् । टाप् ।)
कदली । (यथा, नैषधे । २ । ३७ । “तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् ॥”)
अप्सरोविशेषः । इति मेदिनी । मे, ७ ॥ (यथा, महाभारते । १ । ६५ । ५० । “अरुणा रक्षिता चैव रम्भा तद्बन्मनोरमा ॥”)
गौरी । इति शब्दरत्नावली ॥ (सा तु पीठस्थ- शक्तीनामन्यततमा । यथा, देवीभागवते । ७ । ३० । ५८ । “गौरी प्रोक्ता कान्यकुब्जे रम्भा कु मलया- चले ॥”)
गोध्वनिः । इति हेमचन्द्रः । ६ । ४२ ॥ वेश्या । इति धरणिः ॥