वाचस्पत्यम्
रम्य || त्रि० रम्यतेऽत्र यत् । १ सुन्दरे मेदि० २ बलकरे जटा० । ३ चम्पके पु० मेदि० ४ वकवृक्षे पु० शब्दच० । ५ पटोलमूले न० मेदि० । संज्ञायां कन् । ६ प्रधानधातौ शुक्रे न० जटा० । जम्बुद्वीपस्थेषु नवसु वर्षेषु मध्ये “दक्षिणेन सुमे- रोस्तु श्वेतस्य चोत्तरेण च वायव्यं रम्यकं नाम” इत्युक्ते ७ वर्षभेदे ।
शब्दकल्पद्रुमः
रम्य || क्ली (रम + “पोरदुपधात् यत् ।” ३ । १ । ९८ । इति यत् ।)
पटोलमूलम् । इति मेदिनी ॥ प्रधानधातु । इति जटाधरः ॥
शब्दकल्पद्रुमः
रम्यः || त्रि (रम + यत् ।)
मनोज्ञः । इति मेदिनी ॥ (यथा, मनौ । ७ । ६९ । “रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥”)
बलकरः । इति जटाधरः ॥
शब्दकल्पद्रुमः
रम्यः || पुं, (रम्यते अनेनेति । रम + यत् ।)
चम्पक- वृक्षः । इति मेदिनी ॥ वकवृक्षः । इति शब्द- चन्द्रिका ॥