वाचस्पत्यम्
रम्या || स्त्री रम्यतेऽत्र यत् । १ स्थलपद्मिन्याम् राजनि० । २ रात्रौ च मेदि० ।
शब्दकल्पद्रुमः
रम्या || स्त्री (रमतेऽस्यामिति । रम + “पोर- दुपधात् यत् ।” ३ । १ । ९८ । इति यत् । टाप् च ।)
रात्रिः । इति मेदिनी ॥ स्थल- पद्मिनी । इति राजनिर्घण्टः ॥ (गङ्गा । यथा, काशीखण्डे तत्सहस्रनामकीर्त्तने । २९ । १४५ । “रेवती रतिकृद्रम्या रत्नगर्भा रमा रतिः ॥”)