संस्कृत-शब्दकोशः

रम्र रयि

रय

वाचस्पत्यम्

रय ||‍ गतौ भ्वा० आ० सक० सेट् । रयते अरयिष्ट । अरयिढ्वम् अरयिध्वम् ।


वाचस्पत्यम्

रय ||‍ पु० रय—अच् । १ वेगे अमरः । २ प्रवाहे च ।


शब्दकल्पद्रुमः

रय || ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- सक०-सेट् ।)
ङ, रयते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

रयः || पुं, (रयते अनेनेति । रय + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः । रीणा- त्यनेनेति वा । री गतौ + घप्रत्ययेन साधुरिति ।)
वेगः । इत्यमरः । १ । १ । ६७ ॥ प्रवाहः । यथा, —
“प्रवाहः पुनरोघः स्याद्वेणी धारा रयश्च सः ॥” इति हेमचन्द्रः ॥ (यथा, महाभारते । २ । १७ । ६ । “कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ॥” पुरुरवसः पुत्त्रभेदः । यथा, भागवते । ९ । १५ । १ । “ऐलस्य चोर्व्वशीगर्भात् षडासन्नात्मजा नृप । आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥”)



Correction: