संस्कृत-शब्दकोशः

रवथ रविकान्त

रवि

वाचस्पत्यम्

रवि ||‍ पु० अव—इन् रुट्च् । १ सूर्य्ये शब्दर० । २ अर्कवृक्षे च “अचिरात्तु प्रकाशेन अवनात् स रविः स्मृतः” मत्स्यपु० तन्नामनिरुक्तिः । ३ द्वादशसंख्यायाम् ।


शब्दकल्पद्रुमः

रविः || पुं, (रूयते स्तूयते इति । रु + “अच इः ।” उणा० ४ । १३८ । इति इः ।)
सूर्य्यः । अर्क- वृक्षः । इत्यमरः ॥ सूर्य्यस्य भोग्यं दिनं वार- रूपम् ॥ यथा, —
“रवौ वर्ज्ज्यं चतुः पञ्च सोमे सप्त द्बयं तथा ॥” इत्यादिवारवेलाकथने समयप्रदीपः ॥ तत्र निषिद्धानि यथा, —
“माषमामिषमांसञ्च मसूरं निम्बपत्रकम् । भक्षयेद्यो रवेर्व्वारे सप्तजन्मन्यपुत्त्रकः ॥ आर्द्रकं मधु मत्स्यञ्च भक्षयेद्यो रवेर्दिने । सप्तजन्म भवेद्रोगी जन्म जन्म दरिद्रता ॥ निम्बं मांसं मसूरञ्च विल्वकाञ्जिकमार्द्रकम् । भक्षयेद्यो रवेर्व्वारे सप्तजन्मन्यपुत्त्रकः ॥” इति कर्म्मलोचनम् ॥ * ॥
रविग्रहस्य रक्तश्याममिश्रितवर्णः । अयं पूर्ब्बदिक्पुरुषक्षत्त्रियजातिसत्त्वगुणकटुरससिंह- राशिहस्तानक्षत्रसप्तमीतिथिताम्रकलिङ्गदेशा- नामधिपतिः । काश्यपगोत्रः । द्बादशाङ्गुल- शरीरः । पद्महस्तद्वयः । पूर्ब्बाननः । सप्ताश्व- वाहनः । शिवाधिदैवतः । रह्निप्रत्यधिदैवतश्च । इति ग्रहयज्ञतत्त्वादयः ॥ * ॥
अस्य व्युत्पत्तिर्यथा, “अवतीमांस्त्रयो लोकांस्तस्मात् सूर्य्यः परि- भ्रमात् । अचिरात्तु प्रकाशेत अवनात् स रविः स्मृतः ॥” इति मात्स्ये १०१ अध्यायः ॥ * ॥
अस्य भार्य्यापत्यानि यथा, —
“मरीचेः कश्यपो जज्ञे तस्माज्जज्ञे विभावसुः । तस्य भार्य्याभवत् संज्ञा पुत्त्री त्वष्टुः प्रजापतेः ॥ त्रीण्यपत्यानि राजेन्द्र ! संज्ञायां महसां निधिः । आदित्यो जनयामास कन्याञ्चैकां सुलोचनाम् । वैवस्वतं मनुश्रेष्ठं यमञ्च यमुनां ततः ॥ नातितेजोमयं रूपं सोढुं सालं विवस्वतः । मायामयीं ततश्छायां सवर्णां निर्म्ममे स्वतः ॥ संज्ञोवाच ततश्छायां सवर्णे शृणु मे वचः । अहं यास्यामि सदनं पितुस्त्वं पुनरत्र मे । भवने वस कल्याणि ! निर्व्विशङ्कं ममाज्ञया ॥ मनुरेष यमावेतौ यमुनायमसंज्ञकौ । स्वापत्यदृष्ट्या द्रष्टव्यमेतद्बालत्रयं त्वया ॥ न वक्तव्यदिदं वृत्तं त्वया पत्यौ कदाचन । इत्याकर्ण्याथ सा त्वाष्ट्रीं देवी छाया जगाद ताम् ॥ आकचग्रहणान्नाहमाशापाच्चं कदाचन । आख्यास्यामि चरित्रं ते याहिदेवि ! यथासुखम् ॥ इति च्छायां गृहे स्थाप्य संज्ञागात् पितुरालयम् । उवाच पितरं देवी जामातुस्तव न क्षमा ॥ तेजः सोढुमहं तात ! काश्यपस्य महात्मनः । तन्निशम्य चुकोपासौ भर्त्सयामास कन्यकाम् ॥ मह्यं श्रेयः कथं वा स्यादिति सा परिचिन्त्य च । अगच्छद्बडवा भूत्वा चरन्ती चोत्तरान् कुरून् ॥ तपस्तेपे च सा तीव्रं पतिमाधाय चेतसि । मन्यमानोऽथ तां संज्ञां सवर्णायां तथा रविः ॥ सावर्णिं जनयामास मनुश्रेष्ठं महीपते । शनैश्चरं द्बितीयञ्च सुतां भद्रं तृयीयिकाम् ॥ सवर्णा स्वेष्वपत्येषु सापत्न्यात् स्त्रीस्वभावतः । चकाराप्यधिकं स्नेहं न तथा पूर्व्वजेष्वहो ॥ चिरमालोक्य तां भार्य्यां उवाच सविता वचः । अयि भाविनि बालेषु समेष्वपि कुतस्त्वया ॥ विधीयतेऽधिकः स्नेहः सावर्ण्यादिसुतान् प्रति । नाचचक्षे तदा साथ भास्वते परिपृच्छते ॥ ततः समुद्यते शप्तुं छाया सर्व्वं शशंस ह । यथा वृत्तं तथा तथ्यं तुतोष भगवान् रविः ॥ निरागसं न शशाप जगाम त्वष्टुरन्तिकम् । त्वष्टापि च यथान्यायं सान्त्वयित्वाथ काश्यपम् । निर्दग्धुकामं कोपेन प्राणर्च्चच्च मुदा तदा ॥ त्वष्टोवाच । तवातितेजसो भीता प्राप्योत्तरकुरून् वने । बडवारूपमास्थाय संज्ञा चरति शाद्वले । द्रष्टा हि तां भवानद्य स्वभार्य्यां तात मा रुष ॥ लब्धानुज्ञोऽथ सविता गत्वोत्तरकुरूनथ । स हरिर्हरिरूपेण मुखेन समताडयत् ॥ त्वरमाणा च सवितुः परपूरुषशङ्कया । सा तन्निरवमत् शक्र नासिकाभ्यां विवस्वतः । देवौ तस्मादजायेतामश्विनौ भिषजां वरौ ॥” इति पाद्मे स्वर्गखण्डे ११ अध्यायः ॥ (अन्यत् सूर्य्यशब्दे द्रष्टव्यम् ॥)



Correction: