वाचस्पत्यम्
रविज || पु० रवेर्जायते जन—ड । १ शनौ २ सावर्णिमनौ ३ वै- वस्वते मनौ ४ सुग्रीवे वानरे ५ यमे च ६ यमुनायां स्त्री रवितनयादयोऽप्यत्र ।
शब्दकल्पद्रुमः
रविजः || पुं, (रवेर्जात इति । जन् + डः ।)
शनैश्चरः । यथा, ज्योतिषतत्त्वे । “उरगशतभिषार्द्रास्वातिमूलात्रिपूर्ब्बा रविरविजकुजाहे भूतधष्ठीबवम्याम् ॥” (बहुवचने तु केतवः । यथा, बृहत्संहितायाम् । ११ । १० । “प्रागपरदिशोर्दृश्या नृपतिविरोधावहा रविजाः ॥”)