संस्कृत-शब्दकोशः

रविकान्त रविज

रविचक्र

शब्दकल्पद्रुमः

रविचक्रं || क्ली (रवेश्चक्रम् ।)
नराकारसूर्य्यचक्र- विशेषः । यथा, —
“लिख्यते रविचक्रन्तु भास्करो नरसन्निभः ॥ यस्मिन्नृक्षे भवेत् सूर्य्यस्तत्रादौ त्रीणि मस्तके । त्रयं वक्त्रे प्रदातव्यमेकैकं स्कन्धयोर्न्यसेत् ॥ एकैकं बाहुयुग्मे तु एकैकं हस्तयोर्द्बयोः । हृदये पञ्च ऋक्षाणि एकं नाभौ प्रदापयेत् ॥ ऋक्षमेकं ददेद्गुह्ये एकैकं जानुके न्यसेत् । नक्षत्राणि च शेषाणि रविपादे नियोजयेत् ॥ चरणस्थेन ऋक्षेण अल्पायुर्जायते नरः । विदेशगमनं जानौ गुह्यस्थे परदारवान् ॥ नाभिस्थेनाल्पसन्तुष्टो हृत्स्थेन स्यान्महेश्वरः । पाणिस्थेन भवेच्चौरः स्थानभ्रष्टो भवेद्भुजे ॥ स्कन्धस्थिते धनपतिर्म्मुखे मिष्टान्नमाप्नुयात् । मस्तके पट्वबन्धस्तु नक्षत्रं स्याद्यदि स्थितम् ॥” इति गारुडे ६० अध्यायः ॥



Correction: