शब्दकल्पद्रुमः
रविनन्दनः || पुं, (रवेर्नन्दनः । यद्वा, रविं नन्दय- तीति । नन्दि + ल्युः ।)
सुग्रीवः । इति त्रिकाण्ड- शेषः ॥ सावर्णिमनुः । वैवस्वतमनुः । (यथा, भागवते । ९ । १ । १९ । “होतुर्व्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् ॥”)
शनिः । यमश्च ॥ (द्विवचने अश्विनीकुमारौ ॥)