संस्कृत-शब्दकोशः

रविपत्र रविरत्न

रविप्रिय

वाचस्पत्यम्

रविप्रिय ||‍ न० ६ त० । १ रक्तकमले २ ताम्रे च ३ करवीरे पु० राजनि० ४ आदित्यपत्त्रे ५ जलचरे पु० शब्दच० ।


शब्दकल्पद्रुमः

रविप्रियं || क्ली (रविरेव प्रियमस्य ।)
रक्त- कमलम् । ताम्रम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, —
“ताम्रमौडुम्बरं शुल्वमुदुम्बरमपि स्मृतम् । रविप्रियं म्लेच्छमुखं सूर्य्यपर्य्यायनामकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रममे भागे ॥)


शब्दकल्पद्रुमः

रविप्रियः || पुं, (रयेः प्रियः ।)
आदित्यपत्रः । रक्तकरवीरः । इति राजनिर्घण्टः ॥ लकुचः । इति शब्दमाला ॥



Correction: