वाचस्पत्यम्
रसकर्पूर || न० रसेन कर्पूरमिव । (रसकपुर) कर्पूररसे तत्पाकादिगुणा भावप्र० उक्ताः कर्पूररसशब्दे १७४३ पृ० दृश्याः ।
शब्दकल्पद्रुमः
रसकर्पूरं || क्ली कर्पूररसः । रसकापूर इति भाषा । यथा, “तत्र पारदस्य संक्षिप्तं शोधनं कर्त्तव्यम् । शुद्धसूतसमं कुर्य्यात् प्रत्येकं गैरिकं सुधीः । इष्टिकां खटिकां तद्बत् स्फुटिकां सिन्धुजन्म च ॥ बल्वीकक्षारलवणं भाण्डरञ्जकमृत्तिकाम् । सर्व्वाण्यतानि संचूर्ण्य वाससा चापि शोधयेत् ॥ खटिका खडी । स्फुटिका फिट्करी । सिन्धु- जन्म सैन्ववम् । वल्वीकं तज्जा मृत् । वल्मीक वरौर । क्षारलवणं खारीलवण । भाण्डरञ्जक- मृत्तिका काविसमाटी । एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्द्दितम् । तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत् ॥ तस्याः स्थाल्या मुखे स्थालीमपरां धारयेत् समाम् । सवस्त्रकुट्टितमृदा मुद्रयेदुभयोर्म्मुखम् ॥ संशोष्य मुद्रयेद्भूयो भूयः संशोष्य मुद्रयेत् । सम्यग्विशोष्य मुद्रां तांस्थालीं चुल्ल्यां विधारयेत् ॥ अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम् । अङ्गारोपरि तद्यन्त्रं रक्षेद्यत्नादहर्निशम् ॥ शनैरुद्धारयेद्यन्त्रभूर्द्ध्वस्थालीगतं रसम् । कर्पूरवत् सुविमलं गृह्णीयाद्गुणवत्तरम् ॥ तं देवकुसुमचन्दनकस्तूरीकुङ्कुमैर्युक्तम् । खादन् हरति फिरङ्गं व्याधिं सोपद्रवं सपदि ॥ विन्दति वह्नेर्द्दीप्तिं पुष्टिं वीर्य्यं बलं विपुलम् । रमयति रमणीशतकं रसकर्पूरस्य सेवकः सततम् ॥” इति भावप्रकाशः ॥ * ॥
अपि च । “गैरिकतुरवीखटिकासैन्धवगडजं रजं कुडवम् । प्रत्येकं दृढण्ड्यामाधायास्योपरि शतं स्थाप्यः ॥ कुडवमितोऽथ तदूर्द्ध्वं देया हण्डीतदास्य पात- मुखी । अथ तत्सन्धेर्म्मुद्रां कृता तदधो हुताशनो ज्वाल्यः ॥ अर्म्मणषट्कप्रमितैर्द्दारुभिरनुनातिदुर्ब्बलस्थूलैः । अग्निं क्रमेण दद्याद्गुरुदर्शितवर्त्मना द्बिनिशम् ॥ तदनु ततो यन्त्रवराद्युक्त्या कर्पूरसन्निभं सूतम् । आदाय काचकुम्भे निधाय नवसादरं दद्यात् ॥ संमर्द्द्य चाथ काष्ठैरर्द्धार्म्मणसंमितैः पचेत् घस्रम् । चुल्लीडमरुकमध्यं वितस्तिचतुराङ्गुलावकाशन्तु ॥ कर्त्तव्यं क्रमदहनं तदधः प्रज्वालयेन्मध्यम् । शशिधवलमुपरिलग्नं युक्त्या संगृह्य रक्षयेद्- यत्नात् ॥ वल्लं वल्लार्द्धं वा गुडेन जीर्णेन रोगिणे दद्यात् । दुग्धोदनन्तु पर्थ्यं देयं तस्मै च ताम्बूलम् ॥ हरति समस्तं रोगं कर्पू राख्यो रसो नृणाम् ॥ फिरङ्गकरिकेशरी सकलकुष्ठदावानलो- ऽखिलव्रनविनाशकृत् व्रणजगर्त्तपूर्त्तिप्रदः । सूवर्णसमवर्णकृत् बलहुताशतेजस्करः समस्तगदतस्करो रसपतिः स कर्पूरकः ॥” ग्रन्थान्तरम् । “टङ्कणं मधु लाक्षाथ ऊर्णा गुञ्जायुतो रसः । मर्द्दयेत् भृङ्गजद्रावैर्द्दिनैकं ध्मापयेत् पुनः । ध्मातो भस्मत्वमाप्नोति शुद्धकर्पूरसन्निभः ॥ नवसादरं पारदाच्चतुर्थांशमिति सङ्केतः । गडजं साम्भरिलोण इति भाषा । शेषं स्पष्टम् । इत्यायुर्व्वेदप्रकाशः ॥ (तथा च । “पिष्टं पांशुपटु प्रगाढममलं वज्य्रम्बुना नैकशः सूतं धातुगतं खटीकवलितं तत्संपुटे रोधयेत् ॥ अन्तस्तल्लवणस्य तस्य च तले प्रज्जाल्य वह्निं हठात् घस्रं ग्राह्य मथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः ॥ तद्वल्वद्वितयं लवङ्गसहितं प्रातः प्रयुक्तं भजेत् । ऊर्द्ध्वं रेचयति द्बियाममसकृत् पेयं जलं शीतलम् ॥ एतद्धन्ति च वत्सरावधि विषं षान्मासिकं मासिकम् । शैलोत्थं गरलं मृगेन्द्रकुटिलोऽद्भुतञ्च तात्का- लिकम् ॥” इति सुधानिधिरसः ॥ * ॥
रकर्पूरमिति रस- मञ्जरी कारः । श्वेतभस्म इति चन्द्रिका ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमाराणाधिकारे ॥)