वाचस्पत्यम्
रसज || न० रसात् भुक्तान्नसारात् प्रथमधातोर्जायते जन—ड । १ रुधिरे शब्दच० असृक्करशब्दे दृश्यम् । रसात् इक्षु- प्रभृतेः द्रवात् जायते जन—ड । २ गुडे पु० राजनि० । ३ मद्यकीटे च पु० हेमच० । २ रसभवादयोऽप्यत्र ।
शब्दकल्पद्रुमः
रसजं || क्ली (रसाज्जायते इति । जन् + डः ।)
रक्तम् । इति शब्दचन्द्रिका ॥
शब्दकल्पद्रुमः
रसजः || पुं, (रसाज्जातः । जन् + डः ।)
गुडः । इति राजनिर्घण्टः ॥ (यथा, मनुः । ११ । १४४ । “अन्नाद्यजानां सत्त्वानां रसजानाञ्च सर्व्वशः ॥”)
मद्यकीटः । इति हेमचन्द्रः ॥ (रसजाते, त्रि । यथा, —
“रसजं पुरुषं विद्याद्रसं रक्षेत् प्रयत्नतः । अन्नात् पानाच्च मतिमानाचाराच्चाप्यतन्द्रितः ॥” इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये ॥)