वाचस्पत्यम्
रसज्येष्ठ || पु० रसेषु ज्येष्ठः श्रेष्ठः । १ मधुररसे हेमच० २ शृङ्गाररसे च ।
शब्दकल्पद्रुमः
रसज्येष्ठः || पुं, (रसेषु ज्येष्ठः ।) मधुररसः । इति हेमचन्द्रः ॥ शृङ्गाररसश्च ॥