वाचस्पत्यम्
रसदालिका || स्त्री रसार्थं दल्यते दल—कर्मणि घञ् गौरा० ङीष् स्वार्थे क ह्रस्वः । पुण्ड्रेक्षौ (पुडि आख) राजनि० ।
शब्दकल्पद्रुमः
रसदालिका || स्त्री (रसं दालयति इति । दल + णिच् + ण्वुल् । टापि अत इत्वम् ।)
पुण्ड्रकेक्षुः । इति राजनिर्घण्टः ॥