वाचस्पत्यम्
रसधातु || पु० रसाख्यो द्रवरूपो वा धातुः । पारदे राजनि०
शब्दकल्पद्रुमः
रसधातुः || पुं, (रसात्मको धातुः ।)
पारदः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायादिर्यथा, —
“रसायनार्थिभिर्लोकैः पारदो रस्यते यतः । ततो रस इति प्रोक्तः स च धातुरपि स्मृतः ॥ पारदो रसधातुश्च रसेन्द्रश्च महारसः । चपलः शिववीर्य्यञ्च रसः सूतः शिवाह्वयः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)