शब्दकल्पद्रुमः
रसनालिट् || [ह्] पुं, (रसनया लेढीति । लिह् + क्विप् ।) कुक्कुरः । इति हेमचन्द्रः ॥ रसनया लेहनकर्त्तरि, त्रि ॥