शब्दकल्पद्रुमः
रसमर्द्दनं || क्ली (रसस्य पारदधातोर्मर्द्दनम् ।)
पारदपेषणम् । यथा, —
“इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्द्यो रसस्ततः । दध्ना गुडेन सिन्धूत्थराजिकागृहधूमकैः ॥” अन्यच्च । “कुमारिकाचित्रकरक्तसर्षपैः कृतैः कषायैर्वृहतीविमिश्रितैः । फलत्रिकेणापि विमर्द्दितो रसो दिनत्रयं सर्व्वमलैर्विमुच्यते ॥” इति भावप्रकाशः ॥