वाचस्पत्यम्
रसा || स्त्री पाकजः रसो माधुर्य्यादिरूपोऽस्त्यस्याः अच् । पृथिव्याम् अमरः ।
शब्दकल्पद्रुमः
रसा || स्त्री (माधुर्य्यादिरूपो विविधो रसोऽस्त्यस्या- मिति । “अर्शआदिभ्योऽच् ।” ५ । २ । १२७ । इति अच् । रसति शब्दायते इति वा । रस + अच् । टाप् च ।)
पृथिवी । इत्यमरः ॥ रसना । (तत्पर्य्यायो यथा, भावप्रकाशे । १ । १ । “रास्ना युक्तरसा रस्या सुवहा रसना रसा । एलापर्णी च सुरसा सुगन्धा श्रेयंसी तथा ॥”)
पाठा । (अस्याः पर्य्यायो यथा, भावप्रकाशे । १ । १ । “पाठाम्बष्ठाम्बष्ठकी च प्राचीना पापचेलिका । एकाष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका ॥” शल्लकी । (अस्याः पर्य्यायो यथा, —
“शल्लकी गजभक्ष्या च सुवहा सुरभां रसा । महेरुणा कुन्दुरुकी वल्लकी च बहुस्रवा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कङ्गुः । इति मेदिनी ॥ द्राक्षा । काकोली । इति शब्दरत्नावली ॥ (रसातलम् । यथा, भागवते । १० । ६ । १२ । “रसा दिशश्च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्रनिपातशङ्कया ॥” यथा च तत्रैव । ३ । १३ । १६ । “सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता ॥” “रसां रसातलं गता ।” इति तट्टीकायां स्वामि- पादाः ॥ नदी । यथा, ऋग्वेदे । १ । ११२ । १२ । “याभी रसां क्षोदसोद्नः पिपिण्वथुः ॥” “रसां नदीम् ।” इति तद्भाष्ये सायणः ॥)