वाचस्पत्यम्
रसाञ्जन || न० रसजातं पित्तलधातुजमञ्जनम् । खनामख्याते “रीत्यान्तु ध्मायमानायां तत्किट्टन्तु रसाञ्जनम् । तदभावे तु कर्त्तव्यं दर्वीक्वाथसमुद्भवम्” इत्युक्ते १ पदार्थे राजनि० तद्विधिश्च भावप्र० उक्तो यथा “दार्वीक्वाथसमं क्षीरं पादं पक्त्वा यथा घनम् । तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम् । रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् । उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत्” ।
शब्दकल्पद्रुमः
रसाञ्जनं || क्ली (रसजातमञ्जनं इति मध्यपदलोपी कर्म्मधारयः ।)
रसजाताञ्जनविशेषः । रसवत् इति भाषा ॥ तत्पर्य्यायः । रसगर्भम् २ तार्क्ष्य- शैलम् ३ । इत्यमरः ॥ रसोद्भूतम् ४ रसाग्र- जम् ५ कृतकम् ६ बालभैषज्यम् ७ दार्व्वी- क्वाथोद्भवम् ८ रसराजः ९ वर्य्याञ्जनम् १० रसनार्भम् ११ अग्निसारम् १२ । अस्य गुणाः । हिमत्वम् । तिक्तत्वम् । चक्षुष्यत्वम् । मधुरत्वम् । कटुत्वम् । रक्तपित्तविषच्छर्द्दिहिक्कापस्मार- नाशित्वञ्च । “रीत्यान्तु ध्मायमानायां तत्किट्टन्तु रसाञ्जनम् । तदभावे तु कर्त्तव्यं दार्व्वीक्वाथसमुद्भबम् ॥” इति राजनिर्घण्टः ॥ अपि च । “दार्व्वीक्वाथसमं क्षीरं पादं पक्त्वा यथाघनम् । तदा रसाञ्जनाख्यं तन्नेत्रयोः परमं हितम् ॥ रसाञ्जनं तार्क्ष्यशैलं रसगर्भञ्च तार्क्ष्यजम् । रसाञ्जनं कटु श्लेष्मविषनेत्रविकारनुत् । उष्णं रसायनं तिक्तं छेदनं व्रणदोषहृत् ॥” इति भावप्रकाशः ॥