संस्कृत-शब्दकोशः

रसायक रसायनफला

रसायन

वाचस्पत्यम्

रसायन ||‍ न० रसस्यायनभिव । १ तक्रे हेमच० २ कट्याम् राजनि० ३ विषभेदे वैद्यकप्रसिद्धे ४ औषधमेदे च ५ गरुडे ६ विडङ्गे च पु० मेदि० । ६ त० । ७ रसस्थाने च । औषधभेदलक्षणदि भावप्र० उक्तं यथा “यज्जराव्याधिविध्वंसि वयसऽस्तम्भकन्तथा । चाक्षुष्यं वृंहणं वृष्यं भेषजं तद्रसायनम्” । रसायनस्य फल- माह “दीर्घमायुः स्मृतीर्मेधामारोम्यं तरुणं वयः । देहेन्द्रियबलं कान्तिं नरो विन्देद्रसायनात्” । तद् विधिमाह “पूर्वे वयसि मध्ये वा मनुष्यस्य रसाय- यनम् । प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा । नाविशुद्धशरीरसस्य र्युक्तो रसायनो विधिः । न भाति वाससि श्लिष्टे रङ्गुयोग इवाहितः” । ||‍“शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः । त्रिशः समस्तमथ वा प्राक् पीतं स्थापयेद्वयः । मण्डूक- पर्ण्याः स्वरसः प्रभाते प्रयोज्य यष्टीमधुकस्य चूर्णम् । रसो गुडूच्यास्तु समूलपुष्पः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः । आयुःप्रदान्यामयनाशनानि बलाग्निवर्ण- स्मरवर्द्धनानि । मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी” । मध्वूकपर्णी ब्राह्मी । (वरमी) इति लोके, तदलाभे मञ्जिष्ठापि ग्राह्या तस्या अपि रसायनत्वात् । “माक्षिकेण तुगाक्षीर्य्या पिप्पल्या लवणेन च । त्रिफला सितया वापि युक्ता सिद्ध” रसायनम् । सिन्धूत्थं शर्करा शुण्ठी कणासधुगुडैः क्रमात् । वर्षादिष्वभया प्राश्या रसायनगुणैषिणा । पुन- र्नवस्यार्द्धपलं नवस्य पिष्टं पिबेद् यः पयसार्द्धमासम् । मासत्रयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः स पुनर्नवः स्यात् । ये मासमेकं स्वरसं पिवन्ति दिने दिने भृङ्ग- रजः समुत्थम् । क्षीराशिनस्ते वलवीर्य्ययुक्ताः ससाशतं जीवनमाप्नुवन्ति । शतावरी मुण्डितिका गुडूची सह- स्तिकर्णा सह तालमूली । एतानि कृत्वा समभागयुक्ता- न्याय्येन किं वा मधुनाऽवलिह्यात् । जरारुजामृत्यु- नियुक्तदेही भवेन्नरो वीर्य्यवलादियुक्तः । विभाति देव- प्रतिमः स नित्यं प्रभामयो भूरिविवृद्धबुद्धिः । पीताश्व- गन्धा पयसार्द्धमासं घृतेन तैलेन सुखाम्बुना वा । वीर्य्यस्य पुष्टिं वपुषो विधत्ते वालस्य शस्यस्य यथा- म्बुवृष्टिः । अयःपलं गुग्गुलुरत्र योज्यः पलत्रयं व्योषपलानि पञ्च । पलानि चाष्टौ त्रिफलारजश्च कर्षं लिहन यात्यमरत्वमेव । न केवलं दीर्घमिहा युरश्नुते रसायनं योविविधं विषेवते । गतिं स देवर्षि निषेवितां शुभां प्रपद्यते ब्रह्म तथैव चाक्षयम्” ।


शब्दकल्पद्रुमः

रसायनं || क्ली कटिः । इति राजनिर्घण्टः ॥ (रसो दुग्धं अयनं मूलं यस्येति ।)
तक्रम् । इति हेम- चन्द्रः ॥ विषम् । (रसा रसरक्तादय ईयन्ते प्राप्यन्ते अनेनेति । इ + ल्युट् ।)
ज्वराव्याधि- नाशकौषधम् । इति मेदिनी ॥ (यथा, माधे । २ । ९३ । “षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षं रसायनम् । भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥”)
“न सूतेन विना कान्तं न कान्तेन विना रसः । सूतकान्तसमायोगात् रसायनमुदीरितम् ॥” इति राजनिर्घण्टः ॥ * ॥
अथ रसायनाधिकारः । तत्र रसायनस्य लक्षणमाह । “यज्जराव्याधिविध्वंसि वयसस्तम्भकन्तथा । चक्षुष्यं वृंहणं वृष्यं भेषजं तद्रसायनम् ॥” रसायनस्य फलमाह । “दीर्घमायुः स्मृतीर्मेधामारोग्यं तरुणं वयः । देहेन्द्रियबलं कान्तिं नरो विन्देद्रसायनात् ॥” तद्विधिमाह । “पूर्व्वे वयसि मघ्ये वा मनुष्यस्य रसायनम् । प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोः सदा ॥ नाविशुद्धशरीरस्य युक्तो रासायनो विधिः । न भाति वाससि श्लिष्टे रङ्गयोग इवाहितः ॥” अथ तदुदाहरणानि । “शीतोदकं पयः क्षौद्रं घृतमेकैकशो द्विशः । त्रिशः समस्तमथवा प्राक् पीतं स्थापयेद्वयः ॥ मण्डूकपर्ण्याः स्वरसः प्रभाते प्रयोज्य यष्टीमधुकस्य चूर्णम् । रसो गुडुच्यास्तु समूलपुष्पः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ॥ आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि । मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी ॥” मण्डूकपर्णी ब्राह्मी । वरभी इति लोके । तदलाभे मञ्जिष्ठापि ग्राह्या । तस्या अपि रसायनत्वात् । “माक्षिकेण तुगाक्षीर्य्या पिप्पल्या लवणेन च । त्रिफला सितया वापि युक्ता सिद्धं रसायनम् ॥ सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् । वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ॥ पुनर्नवस्यार्द्धपलं नवस्य पिष्टं पिबेद्यः पयसार्द्धमासम् । मासत्रयं तत्त्रिगुणं समां वा जीर्णोऽपि भूयः स पुनर्नवः स्यात् ॥ ये मासमेकं स्वरसं पिबन्ति दिने दिने भृङ्गरजःसमुत्थम् । क्षीराशिनस्ते बलवीर्य्ययुक्ताः समाशतं जीवनमाप्नुवन्ति ॥ शतावरी मुण्डितिका गुडूची सहस्तिकर्णा सहतालमूली । एतानि कृत्वा समभागयुक्ता- न्याज्येन किंवा मधुनावलिह्यात् ॥ जरारुजामृत्युवियुक्तदेहो भवेन्नरो वीर्य्यबलादियुक्तः । विभाति देवप्रतिमः स नित्यं प्रभामयो भूरिविवृद्धबुद्धिः ॥ पीताश्वगन्धा पयसार्द्धमासं घृतेल तैलेन सुखाम्बुना वा । वीर्य्यस्य पुष्टिं वपुषो विधत्ते बालस्य शस्यस्य यथाम्बुवृष्टिः ॥ अयःपलं गुग्गुलुरत्र योज्यः पलत्रयं व्योषपलानि पञ्च । पलानि चाष्टौ त्रिफलारजश्च कर्षं लिहन् यात्यमरत्वमेव ॥” लोहगुग्गुलुः । “न केवलं दीर्घमिहायुरश्रुते रसायनं यो विविधं निषेवते । गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथैव चाक्षयम् ॥” इति रसायनाधिकारे भावप्रकाशः ॥ (तथा च । “लाभोपायोहिशस्तानां रसादीनां रसायनम् । पूर्व्वे वयसि मध्ये वा तत् प्रयोज्यं जितात्मनः । स्निग्धस्य स्रुतरक्तस्य विशुद्धस्य च सर्व्वथा ॥ नाविशुद्धे शरीरे हि युक्तो रासायनो विधिः । वाजीकरो वा मलिने वस्त्रे रङ्ग इवाफलः ॥” “रसायनानां द्विविधं प्रयोगमृषयो विदुः । कुटीप्रावेशिकं मुख्यं वातातपिकमन्यथा ॥ निर्व्वाते निर्भये हर्म्ये प्राप्योपकरणे पुरे । दिश्युदीच्यां शुभे देशे त्रिगर्भां सूक्ष्मलोचनाम् ॥ धूमातपरजोव्यालस्त्रीमूर्खाद्यविलङ्घिताम् । सज्जवैद्योपकरणां सुमृष्टां कारयेत् कुटीम् ॥ अथ पुण्येऽह्नि संपूज्य पूज्यांस्तां प्रविशेच्छुचिः । तत्र संशोधनैः शुद्धः सुखी जातबलः पुनः ॥ ब्रह्मचारी धृतियुतः श्रद्दधानो जितेन्द्रियः । दानशीलदयासत्यव्रतधर्म्मपरायणः ॥ देवतानुस्मृतो युक्तो युक्तस्वप्नप्रजागरः । प्रियौषधः पेशलवाक् प्रारभेत रसायनम् ॥ हरीतकीमामलकं सैन्धवं नागरं वचाम् । हरिद्रां पिप्पलीं वेल्लं गुडञ्चोष्णाम्बुना पिबेत् ॥ स्निग्धः स्विन्नो नरः पूर्ब्बं तेन साधु विरिच्यते । ततः शुद्धशरीराय कृतसंसर्ज्जनाय च ॥ त्रिरात्रं पञ्चरात्रं वा सप्ताहं वा घृतान्वितम् । दद्याद्यावकमाशुद्धेः पुराणशकृतोऽथ वा ॥ इत्थं संस्कृतकोष्ठस्य रसायनमुपाहरेत् । यस्य यद्यौगिकं पश्येत् सर्व्वमालोच्य सात्म्य- वित् ॥” “कुटीप्रवेशः क्षणिनां परिच्छदवतां हितः । अतोऽन्यथा तु ये तेषां सूर्य्यमारुतिकोविधिः ॥ वातातपसहायोगा वक्ष्यन्तेऽतो विशेषतः । सुखोपचारा भ्रंशेऽपि ये न देहस्यवाधकाः ॥” इत्युत्तरस्थानीयबाग्भटे ३९ अध्याये ॥ विशेषस्तु तस्मिन्नध्याये ज्ञातव्यः ॥ * ॥
रसः पारदः लक्षणया तज्जातीय-हरितालादिकञ्च अयनं आश्रय उपायो वा यस्य तत् । स्वर्णादि- करणम् । अथरसायने ईश्वर उवाच । “गोमूत्रं हरितालञ्च गन्धकञ्च मनःशिलाम् । समं समं गृहीत्वा तु यावत् शुष्यति पेषयेत् ॥ एकादशदिनं यावत् यत्नेन रक्षयेत् शुचिः । मन्त्रेण धूपदीपादिनैवेद्यैर्दुग्धमिश्रितैः ॥ मन्त्रस्तु ॐ हरिहराय रसायनं सिद्धिं कुरुकुरु स्वाहा । अयुतजपेन सिद्धिः । तद्वटीं गोलकं कृत्वा वस्त्रेणावेष्टयेत् पुनः । मृत्तिकां लेपयेत्तस्य च्छायाशुष्कन्तु कारयेत् ॥ गर्त्ते कुण्डे विनिक्षिप्ते पलाशकाष्टवह्निना । ज्वालयेदष्टयामन्तु नान्यथा शङ्करोदितम् ॥ तद्भस्म जायते सिद्धिर्व्विद्धि सिद्धिसमाकुलम् । ताम्रपात्रे अग्निमध्ये बिन्दुमात्रं नियच्छति ॥ तत्क्षणाज्जायते स्वर्णं नान्यथा शङ्करोदितम् । दातव्यं गुरुभक्ताय न दद्याद्दुष्टमानसे । सिद्धपीठे भवेत्सिद्धिर्गायत्त्रीलक्षजापनैः ॥ यस्मै कस्मै न दातव्यं दातव्यं शिवभक्तके । अग्निमुखं द्विजातीनां पाचकानां विशेषतः ॥ गोप्यं गोप्यं महागोप्यं देवानामपि दुर्लभम् ॥” प्रकारान्तरम् । “आनीय बहुयत्नेन सम्बलं तोलकद्वयम् । वसुराद्यं शिवञ्चाद्यं मायाबिन्दुसमन्वितम् ॥ बीजत्रयञ्चाष्टशतं प्रजपेत् सम्बलोपरि । अशीतितोलकमानं कृष्णधेनुसमुद्भवम् ॥ दुग्धमानीय यत्नेन चाष्टोत्तरशतं जपेत् । वस्त्रयुक्तेन सूत्रेण दुग्धमध्ये विनिक्षिपेत् ॥ उत्तापं ज्वालयेद्धीमान् मन्दमन्देन बह्निना । रिपुर्वेदार्द्धपर्य्यन्तमर्द्धशोषं भवेद्यदि ॥ तदैवोत्तोल्य तद्द्रव्यं दुग्धं तोये विनिक्षिपेत् ॥” ततः परीक्षा कर्त्तव्या । “निर्धूभं पावके द्रव्यं दृष्ट्वा उत्थाप्य यत्नतः । तत्रैव प्रजपेन्मन्त्रं सर्व्वबन्धनमात्मकम् ॥ सार्द्धेन तोलकं ताम्रं दृष्ट्वा उत्थाप्य यत्नतः । गुञ्जाप्रमाणं तद्द्रव्यं सत्यं सत्यं हि शङ्करि ! । रौप्यं भवति तद्रव्यं नान्यथा शङ्करोदितम् ॥” प्रकारान्तरम् । “कृष्णसर्पमेकं गृहीत्वा तस्य मुखे शिववीर्य्यं पूर- यित्वा सर्पस्य मुखं गुदञ्च बद्धा नूतनमृण्मय- स्थालीमध्ये संस्थाप्य स्थालीमुखं मृदादिना संलिप्य निर्ज्जनस्थाने प्रातरारभ्य पुनःप्रात- र्यावत् बह्निना ज्वालं दद्यात् । ततः शुभक्षणे स्थालीमुखमुद्धृत्य सर्पभस्म विहाय शिववीर्य्यं गृह्णीयात् । ततस्तोलकमितं ताम्रं गालयित्वा तस्मिन् गालितताम्रे रक्तिकमात्रं तत् शिववीर्य्यं दद्यात् तेन तत्क्षणादेव तत्ताम्रं सुवर्णीभूतम् । आदौ शिवार्च्चनं कृत्वा पश्चात् प्रयोग एष कर्त्तव्यः ॥” इति दत्तात्रेयतन्त्रे ईश्वरदत्तात्रेय- संवादे रसायनं नाम त्रयोदशः पटलः ॥)


शब्दकल्पद्रुमः

रसायनः || पुं, गरुडः । बिडङ्गः । इति मेदिनी ॥



Correction: