संस्कृत-शब्दकोशः

रसायनश्रेष्ठ रसाल

रसायनी

वाचस्पत्यम्

रसायनी ||‍ स्त्री रसायनं रसस्थानमस्त्यस्या अच गौ० ङीष् । १ गुडूच्याम् २ काकमाच्यां ३ महाकरञ्जे ४ गोरक्षदुग्धा- याम् ५ मांसच्छदायाञ्च राजनि० ।


शब्दकल्पद्रुमः

रसायनी || स्त्री (रसान् तैलादीन् अयते प्राप्नोतीति । अय् + ल्युः । ङीष् ।)
गुडूची । काकमाची । महाकरञ्जः । गोरक्षदुग्धा । मांसच्छदा । इति राजनिर्घण्टः ॥ (मञ्जिष्ठा । अस्याः पर्य्यायो यथा, —
“मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका । मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥ रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकी च गण्डीरी मञ्जूषा वस्त्ररञ्जिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: