संस्कृत-शब्दकोशः

रसालसा रसालिहा

रसाला

शब्दकल्पद्रुमः

रसाला || स्त्री (रसान् आलातीति । आ + ला + कः । टाप् ।)
रसना । दूर्व्वा । विदारी । इति मेदिनी ॥ द्राक्षा । इति शब्दरत्नावली ॥ शिख- रिणी । तत्पर्य्यायः । मार्ज्जिता २ । इत्यमरः ॥ तस्याः करणप्रकारो यथा, —
“आदौ माहिषमम्लमम्बुरहितं दध्याढकं शर्करां शुभ्रां प्रस्थयुगोन्मितां शुचिपटे किंञ्चिच्च कञ्चित् क्षिपेत् । दुग्धेनाद्धघनेन मृण्मयनवस्थाल्यां दृढं स्रावये- देलाबीजलवङ्गचन्द्रमरिचैर्योग्यैश्च तद्योजयेत् ॥ भीमेन प्रियभोजनेन रचिता नाम्ना रसाला स्वयं श्रीकृष्णेन पुरा पुनःपुनरियं प्रीत्या समा- स्वादिता । एषा येन वसन्तवर्ज्जितदिने सेव्या परं नित्यश- स्तस्य स्यादतिवीर्य्यवृद्धिरनिशं सर्व्वेन्द्रियाणां बलम् ॥ ग्रीष्मे तथा शरदि ये रविशोषिताङ्गा ये च प्रमत्तवनितासुरतातिखिन्नाः । ये चापि मार्गपरिसर्पणशीर्णगात्रा- स्तेषामियं वपुषि पोषणमाशु कुर्य्यात् ॥ रसाला शुक्रला बल्या रोचनी वातपित्तजित् । दीपनी बृंहणी स्निग्धा मधुरा शिशिरा सरा । रक्तपित्तं तृषां दाहं प्रतिश्यायं विनाशयेत् ॥” इति राजनिर्घण्टः ॥ अपि च । “दध्नोऽर्द्धाढकमीषदम्लमधुरं खण्डस्य चन्द्रद्युतेः प्रस्थं क्षौद्रपलञ्च पञ्च हविषः शुण्ठ्याश्चतुर्म्माष- कान् । एलामाषचतुष्टयं मरिचतः कर्षं लवङ्गं तथा धृत्वा शुक्लपटे शनैः करतलेनोन्मथ्य विस्रा- वयेत् ॥ मृद्भाण्डे मृगनाभिचन्दनरससृष्टेऽगुरूद्धूपिते कर्पूरेण सुगन्धितं तदखिलं संलोड्य संस्थाप- येत् । स्वस्वार्थे मथुरेश्वरेण रचिता ह्येषा रसाला स्वयं भोक्तुर्म्मन्मथदीपनी सुखकरी कान्तेव नित्यं प्रिया ॥” इति भावप्रकाशः ॥



Correction: