शब्दकल्पद्रुमः
रसास्वादः || पुं, (रसस्य आस्वादः ।)
अखण्ड- वस्तनवलम्बनेनापि चित्तवृत्तेः सविकल्पा- नन्दास्वादनम् । समाध्यारम्भसमये सवि- कल्पानन्दास्वादनं वा । इति वेदान्तसारः ॥ * ॥
“चतुर्थं विघ्नमाह अखण्डेति । उक्तसविकल्पक- समाध्योर्म्मध्ये द्वितीयः शब्दाननुविद्धस्त्रिपुटी- विशिष्टस्तस्मिन् य आनन्दो वाह्यशब्दादि- विषयप्रपञ्चभारत्यागप्रयुक्तो न तु चैतन्यप्रयुक्तः । यथा निधिग्रहणाय प्रवृत्तस्य निधिपरि- पालकभूतप्रेताद्यावृतस्य निधिप्राप्तेः अभावेऽपि भूताद्यनिष्टनिवृत्तिमात्रेण कोऽपि महानानन्दो भवति तथा सविकल्पकसमाधावखण्डवस्त्वनव- लम्बनेन नित्यानन्दरसास्वादनाभावेऽपि अनिष्ट- वाह्यप्रपञ्चनिवृत्तिजन्यानन्दं सविकल्पकरूपं ब्रह्मानन्दभ्रमेण स्वादयति तद्रसास्वादनमित्यर्थः । लक्षणान्तरमाह समाधीत्यादि । निर्व्विकल्पक- समध्यारम्भकाले अनुभूय मानसविकल्प- का दत्यागासहिष्णुतया पुनस्तस्यैवास्वादनं रसास्वाद इत्यर्थः ।” इति सुबोधन्याख्या तट्टीका ॥