शब्दकल्पद्रुमः
रसिकेश्वरः || पुं, (रसिकानां रसज्ञानामीश्वरः ।) श्रीकृष्णः । यथा, — “वृन्दावनान्तरे रम्ये रासोत्सवसमुत्सुकम् । रासमण्डलमध्यस्थं नमामि रसिकेश्वरम् ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३२ अध्यायः ॥ (रसिकश्रेष्ठश्च ॥)