संस्कृत-शब्दकोशः

रसुन रसेश्वर

रसेन्द्र

वाचस्पत्यम्

रसेन्द्र ||‍ पु० रस इन्द्र इव । पारदे राजनि० ।


शब्दकल्पद्रुमः

रसेन्द्रः || पुं, (रसानां धातुरसानामिन्द्रः श्रेष्ठः ।)
पारदः । इति राजनिर्घण्टः ॥ (यथा, भाव- प्रकाशे । १ । १ । “असाध्यो यो भवेद्रोगो यस्य नास्ति चिकितु- सितम् । रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् ॥” अस्य पर्य्यायादिकं रसशब्दे द्रष्टव्यम् ॥)



Correction: