संस्कृत-शब्दकोशः

रसेन्द्र रसोत्तम

रसेश्वर

वाचस्पत्यम्

रसेश्वर ||‍ पु० रसः पारद ईश्वर इव तद्देहरसजातत्वात् । १ ईश्वरतुल्ये रसे । तत्त्वज्ञानार्थं देहस्थैर्य्यसम्पादनद्वारा मुक्तिहेतुत्वमस्य माहेश्वरभेदाः प्रतिपेदिरे तन्मतञ्च सर्व- दर्शनसंग्रहे प्रदर्शितं यथा “अपरे माहेश्वराः परमेश्वरतादात्म्यबादिनोऽपि पिण्ड- स्थैर्य्ये सर्वामिमता जीवन्मक्तिः सेत्स्यतीत्यास्थाय पिण्ड- स्थैर्य्योपाय पारदादिपदवेदनीयं रसमेव सङ्गिरन्ते रसस्य पारदत्वं संसारपरपारप्रापणहेतुत्वेन तदुक्तम् इतःपरः ग्रन्थः पारदशब्दे ४३१३ पृष्ठे प्रदर्शितः । “प्रकारान्तरेणापि जीवन्मुक्तौ नेयं वाचोयुक्ति- र्युक्तिमतीति चेन्न षट्स्वपि दर्शनेषु देहपातानन्तरं मुक्तेरुक्ततया तत्र विश्वासानुपपत्त्या निर्विचिकित्स- प्रवृत्तेरनुपपत्तैः । तदप्युक्तं तत्रैव “षड्दर्शनेऽपि मुक्तिस्त दीर्शता पिण्डपातने । करामलकवत्सापि प्रत्यक्षा नोपलभ्यते । तस्मात्तं रक्षयेत्पिण्डं रसैश्चैव रसा- यनैरिति” । गोविन्दभगवत् पादाचर्य्यैरपि “इति धन- शरीरभोगान्मत्वाऽनित्यान् सदैव यतनीयम् । मुक्तौ सा च ज्ञानात् तच्चाभ्यासात् स च स्थिरे देहे” इत्युक्तम् । ननु विनश्वरतया वृश्यमानस्य देहस्य कथं नित्यत्वमवसीयते इति चेन्मैवं मंस्थाः, षाट्कौशिकस्य शरीरस्यानित्यत्वेऽपि रसाभ्रकपदाभिलप्यहरगौरीसृष्टिजातस्य नित्यत्वोपपत्तेः तथाच रसहृदये “ये चात्यक्तशरीरा हरगौरीसूष्टि- जान्तरं प्राप्ताः । वन्द्यास्ते रससिद्धा मन्त्रगणः किङ्करो येषामिति” । तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमं दिव्यतनुर्विधेया । हरगौरीसृष्टिसंयोगजनितत्वञ्च रसस्य हरजत्वेनाभ्रकस्य गोरीसम्भवत्वेन तत्तदात्म- कत्वमुक्तम् “अभ्रकस्तव वीजन्तु मम वीजन्तु पारदः । अनयोर्मेलनं देवि! मृत्युदारिद्र्यनाशनमिति” । अत्यल्प- मिदमुच्यते देवदैत्यमुनिमानवादिषु बहवो रससामर्थ्याद्दिव्यं देहमाश्रित्य जीवन्मुक्तिमाश्रिताः श्रूयन्ते रसेश्वरसि- द्धान्ते “देवाः केचिस्महेशाद्या दैत्याः काव्यपुरःसराः । मुनयो बालखिल्याद्या नृपाः सोमेश्वरादयः । गोविन्द- भगवत्पादाचार्य्यो गोविन्दनामकः । चर्वटिः कपिलो व्याडिः कापालिः कन्दलायनः । एतेऽन्ये बहवः सिद्धा जीवन्मुक्ताश्चरन्ति हि । तनुं रसमयीमाप्य तदात्मक कथाचणाः” इति । अयमेवास्यार्थः परमेश्वरेण परमेश्वरीं प्रति प्रपञ्चितःऽ । इतःपरो ग्रन्थः पारदशब्दे ४३१३ पृ० दर्शितः । तत्प्रपञ्चस्तु गोविन्दभगवत्पादाचार्य्यसर्वज्ञरामेश्वरभट्टा- रकप्रभृतिमिः प्राचीनैराचार्य्यैर्निरूपित इति ग्रन्थ- भूयस्त्वभयादुदास्यते । न च रसशास्त्रं धातुवादार्थ- मेवेति मन्तव्यं देहबन्धद्वारा मुक्तेरेव परमपयोजनत्वात् तदुक्तं रसार्णवे “लोहवन्धस्त्वया देव! यद्दत्तं परमी- शितः! । तं देहबन्धमाचक्ष्व येन स्यात् खेचरी गतिः । यथा लोहे तथा देहे कर्त्तव्यः सूतकः सता । समानं कुरुते देवि! प्रत्ययं देहलोहयोः । पूर्वं लोहे परी- क्षेत पश्चाद्देहे प्रयोजयेत्” इति । ननु सच्चिदानन्दात्मक- परतत्त्वस्फुरणादेव मुक्तिसिद्धौ किमनेन दिव्यदेहसम्पा- दनप्रयासेनेति चेत्तदेतदवार्त्तं वार्त्तशरीरालाभे तद्वा- र्त्ताया अयोगात् । तदुक्तं रसहृदये “गलितानल्पवि- कल्पः सर्वाध्वविवर्जितश्चिदानन्दः । स्फुरितोऽप्यस्फुरित- तनोः करोति किं जन्तुवर्गस्येति । यं जरया जर्जरितं कासश्वासादिदुःखविशदञ्च । योग्यं तं न समाधौ प्रतिहतबुद्धीन्द्रियप्रसरम् । बालः षोडशवर्षो विषय- रसाखादलम्पटः परतः । यातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिमिति” । ननु जीवत्वं नाम संसारित्वं तद्विपरीतत्वं मुक्तत्वं तथाच परस्परविरुद्धयोः कथ- मेकायतनत्वमुपपन्नं स्यादिति चेत्तदनुपपन्नं विकल्पानुप- पत्तेः मुक्तिस्तावत् सर्वतीर्थकरसम्मता सा किं ज्ञेयपदे निविशते न वा चरमे शशविषाणकल्पा स्यात् प्रथमे न जीवनं वर्जनीयमजीवतो ज्ञातृत्वानुपपत्तेः । तदुक्तं रसेश्वरसिद्धान्ते “रसाङ्कमेयमार्गोक्ते जीवमोक्षोऽस्त्यधो- मनाः । प्रमाणान्तरवादेषु युक्तिभेदावलम्बिषु । ज्ञान- ज्ञेयमिदं विद्धि सर्वतन्त्रेषु सम्मतम् । नाजीवन् ज्ञा- स्यति ज्ञेयं यदतोऽस्त्येव जीवनम्” इति । न चेदमदृष्ट- चरमिति मन्तव्यं विष्णुत्वामिमतानुसारिभिः नृपञ्चास्य- शरीरस्य नित्यत्वोपपादनात् । तदुक्तम् साकारसिद्धौ “सच्चिन्नित्यनिजाचिन्त्यपूर्णानन्दैकविग्रहम् । नृपञ्चास्य- महं वन्दे श्रीविष्णुस्वामिसम्मतम्” इति । नन्वेतत् सावयवं रूपवदवभासमानं नृकण्ठीरवाङ्गं सदिति न सङ्गच्छत इत्यादिनाक्षेपपुरःसरं सनकादिप्रत्यक्षेण “सहस्र- शीर्षा पुरुषः” इत्यादिश्रुत्या “तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्यदायुधम्” इत्यादिपुराणलक्षणेन प्र- माणत्रयेण सिद्धं नृपञ्चाननाङ्गं कथमसत् स्यादिति । सदादीनि विशेषणानि गर्भश्रीकान्तमिश्रैः विष्णुस्वामि- चरणपरिणतान्तःकरणैः प्रतिपादितानि । तस्मादस्म- दिष्टदेहनित्यत्वमत्यन्तादृष्टं न भवतीति पुरुषार्थकामुकैः पुरुषैरेष्टव्यम् । अत एवोक्तम् “आयतनं विद्यानां- मूलं धर्मार्थकाममोक्षाणाम् । श्रेयः परं किमन्य- च्छरीरमजरामरं विहायैकमिति” । अजरामरीकरण- समर्थश्च रसेन्द्र एव तदाह “एकोऽसौ रसराजः शरीर- मजरामरं कुरुते” इति । किं वर्ण्यते रसस्य माहात्म्यं यस्य दर्शनस्पर्शनादिनापि महत् फलं भवति । तदुक्तं रसा- र्णवे “दर्शनात् स्पर्शनात्तस्य भक्षणात् स्मरणादपि । पूजना- द्रसदानाच्च दृश्यते षड्विधं फलम् । केदारादीनि लि- ङ्गानि पृथिव्यां यानि कानिचित् । तानि दृष्ट्वा तु यत्- पुण्यं तत् पुण्यं रसदर्शनादित्यादिना” । अन्यत्रापि “काश्यादिसर्वलिङ्गेभ्यो रसलिङ्गार्चनं शिवम् । प्राप्यते येन तल्लिङ्गं भोगारोग्यामृताजरम्” इति । रसनि० न्दायाः प्रत्यवायोऽपि दर्शितः “प्रमादाद्रसनिन्दायाः श्रुतावेनं स्मरेत् सुधीः । द्राक् त्यजेन्निन्दकं नित्यं नि- न्दया पूरिताशुभम्” इति । तस्मादस्मदुक्तया रीत्या दिव्यं देहं सम्पाद्य योगाभ्यासवशात् परतत्त्वे दृष्टे पुरुषार्थप्राप्तिर्भवति । तदा “भ्रूयुगमध्यगतं यत् शिखि- विद्युत्सूर्य्यवज्जगद्भासि । केषाञ्चित् पुण्यदृशामुन्मीलति चिन्मयं ज्योतिः । परमानन्दैकरसं परमं ज्योतिः- स्वभावमविकल्पम् । विगलितसकलक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम् । तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत् पश्यन् । उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नो- तीति” । श्रुतिश्च “रसो वै सः रसं ह्येवायं लब्ध्वानन्दी भवतीति” । तदित्थं भवे नान्योदुःखभरतरणोपायो रस एवेति सिद्धम् । तथाच रसस्य परब्रह्मणा साम्यमिति प्रतिपादकः श्लोकः “यः स्यात् प्रावरणाविमोचनधियां साध्यः प्रकृत्या पुनः सम्पन्नो सहते न दीव्यति परं वैश्वानरे जाग्रति । जातो यद्यपरं न वेदयति च स्व- स्मात् स्वयं द्योतते यो ब्रह्मैव स दैन्यसंसृतिभयात् पायादसौ पारदः” इति ।



Correction: