संस्कृत-शब्दकोशः

रस्या रहस

रह

वाचस्पत्यम्

रह ||‍ गतौ भ्वा० पर० सक० सेट् इदित् । रंहति अरंहीत् “तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः” शारीरकसूत्रम्


वाचस्पत्यम्

रह ||‍ त्यागे अद० चु० उभ० सक० सेट् । रहयति ते अररहत्—त


वाचस्पत्यम्

रह ||‍ त्यागे भ्वा० प० सक० सेट् । रहति अरहीत् ।


शब्दकल्पद्रुमः

रह || इ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
इ, रंह्यते । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

रह || त् क त्यागे । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
रहयति शोकं धीरः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

रह || त्यजि । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
रहति सुखं दीनः । इति दुर्गा- दासः ॥


वाचस्पत्यम्

रंह ||‍ गतौ अद० चु० उभ० सक० सेट् । रंहयति ते अर- रंहत् त ।


शब्दकल्पद्रुमः

रंह || त् क गतौ । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
रंहयति रंहा- पयति । इति दुर्गादासः ॥



Correction: