शब्दकल्पद्रुमः
रहः || [स्] क्ली, (रमन्तेऽस्मिन् । रह + “देशे ह च ।” उणा० ४ । २१४ । इति असुन्प्रत्ययः । हकारश्चान्तादेशः । “रह त्यागे अस्मादसुनि रह इति यातुप्रदीपः ।” इत्युज्ज्वलः ।)
निर्ज्जनम् । तत्पर्य्यायः । विविक्तः २ विजनः ३ छन्नः ४ निःशलाकः ५ रहः ६ उपांशुः ७ इत्यमरः ॥ (यथा, रघौ । ३ । ३ । “तदाननं मृत्सुरभि क्षितीश्वरः रहस्युपाघ्राय न तृप्तिमाययौ ॥”)
तत्त्वम् । रतिः । गुह्यम् । इति मेदिनी ॥
शब्दकल्पद्रुमः
रहः || [स्] व्य, विजनम् । इत्यमरः ॥ “रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम् ॥” इति रभसश्च ॥ “देशादन्यत्र रहोऽव्ययं शब्दान्तरं वास्ति सुरत- वाचकम् ।” इत्युज्ज्वलः । ४ । २१४ ॥)
वाचस्पत्यम्
रंहस् || न० रंह—असुन् । वेगे अमरः ।
शब्दकल्पद्रुमः
रंहः || [स्] क्ली, (रम + “रमेश्च ।” उणा० ४ । २१३ । इति असुन् हुगागमश्च । “अहि रहिभ्यामसुन् इत्यहो रंह इति धातुप्रदीपः ।” इत्युज्ज्वलः ।)
वेगः । तत्पर्य्यायः । तरः २ रयः ३ स्यदः ४ यवः ५ । इत्यमरः ॥ रंघः ६ यवनः ७ । इति तट्टीका ॥ (यथा, रघुः । २ । ३४ । “न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य ॥”)
शब्दकल्पद्रुमः
रंहः || [स्] क्ली, (रमते येन इति । रम् + “रमेश्च ।” उणा० ४ । २१३ । इति असुन् । हुगागमश्च धातोः । “अहिरहिभ्यामसुन् इति अंहो रहः । इति धातुप्रदीपः ।” इत्यु- ज्ज्वलदत्तः ।)
वेगः । इत्यमरः । १ । १ । ६७ ॥ (यथा, रघुवंशे । २ । ३४ । “अलं महीपाल ! तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् । न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य ॥” महादेवः । यथा, महाभारते । १४ । ८ । १५ । “हरिनेत्राय मुण्डाय कृशायोत्तरणाय च । भास्वराय सुतीर्थाय देवदेवाय रंहसे ॥” विष्णुः । यथा, महाभारते हरिवंशपर्व्वणि २५२ । १८ । “नमस्कृत्य सुरेशाय तस्मै देवाय रंहसे । प्रयाताः प्राग्दिशं पुण्यां विपुलं कश्यपाश्र- मम् ॥”)