वाचस्पत्यम्
रहित || त्रि० रह—त्यागे कर्मणि क्त । वर्जिते ।
शब्दकल्पद्रुमः
रहितं || त्रि (रह + क्तः ।)
वर्ज्जितम् । यथा, —
“जातसूतकमादौ च अन्ते च मृतसूतकम् । गुरोस्तद्रहितं कृत्वा जपकर्म्म समाचरेत् ॥” इति तन्त्रसारः ॥ अपि च । “दिग्घ्नोऽब्दश्चाश्विरहितो जन्मर्क्षाढ्यो भशे- षितः । भं भवेदब्दवेशेऽत्र योगेऽप्येवं विचिन्तयेत् ॥” इति जातकपद्धतिः ॥