संस्कृत-शब्दकोशः

रा राक्षस

राका

वाचस्पत्यम्

राका ||‍ स्त्री रा—क तस्य नेत्त्वम् । १ प्रतिपद्युक्तायां पूर्ण- मास्यां सम्पूर्णेन्दुतिथौ २ नदीभेदे ३ नवजातरजस्कायां मार्य्यां ४ कच्छुरोगे च मेदि० । ५ आङ्किरसः कन्याभेदे कुहूशब्दे २१६२ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

राका || स्त्री (रा दाने + “कृदाधारार्च्चिकलिभ्यः कः ।” उणा० ३ । ४० । इति कः । वहुल- वचनादेव न ह्नस्वः ।)
नदीविशेषः । (सा च शाल्मलीद्वीपस्थानां नदीनामन्यतमा । यथा, भागवते । ५ । २० । १० । “तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाताः । सुरसः शतशृङ्गो वामदेवः कुन्दः कुमुदः पुष्पा- वर्षः सहस्रश्रुतिरिति । अनुमती सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥”)
कच्छूरोगः । नवजातरजःस्त्री । (रायते दीयते देवेभ्य हविर्यस्याम् । इति निघण्टुटीकायां देव- राजयज्वा । ५ । ५ । २१ ।)
सम्पूर्णेन्दुतिथिः । इति मेदिनी ॥ (यथा, ऋग्वेदे । २ । ३२ । ४ । “राकामहं सुहवां सुष्टुतीहुवे शृणोतु नः सुभगा बोधतुत्मना ॥” “संपूर्णचन्द्रा पौर्णमासी राका ।” इति सायणः ॥ राक्षसीविशेषः । सा च खरस्य शूर्पणखायाश्च जननी । यथा, महाभारते । ३ । २७४ । १-८ । मार्कण्डेय उवाच । “पुलस्त्यस्य तु यः क्रोधादर्द्धदेहोऽभवन्मुनिः । विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत ॥ बुबुधे तन्तु सक्रोधं पितरं राक्षमेश्वरः । कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ! ॥ स राजराजो लङ्कायां निवसन्नरवाहनः । राक्षसीः प्रददौ तिसः पितुर्वै परिचारिकाः ॥ ताः सदा तं महात्मानं सन्तोषयितुमुद्यताः । ऋषिं भरतशार्दूल ! नृत्यगीतविशारदाः ॥ पुष्पोत्कटा च राका च मालिनी च विशां पते । अन्योऽन्यस्पर्द्धया राजन् ! श्रेयस्कामाः सुम- ध्यमाः ॥ स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान् । लोकपालोपमान् पुत्त्रानेकैकस्या यथेप्सितान् ॥ पुष्पोत्कटायां जज्ञाते द्वौ पुत्त्रौ राक्षसेश्वरौ । कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥ मालिनी जनयामास पुत्त्रमेकं विभीषणम् । राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा ॥”)



Correction: