संस्कृत-शब्दकोशः

राक्षस राक्षसेन्द्र

राक्षसी

शब्दकल्पद्रुमः

राक्षसी || स्त्री (राक्षस + ङीप् ।)
कौणपी । राक्षसपत्नी । यथा, रघुः । १२ । ६१ । “दृष्ट्वा विचिन्वता तेन लङ्कायां राक्षसीवृता । जानकी विषवल्लीभिः परीतेव महौषधिः ॥”)
दंष्ट्रा । बृहद्दन्तेति यावत् । इति हेमचन्द्रः ॥ चण्डा चोरनामगन्धद्रव्यमिति यावत् । इति मेदिनी ॥ सायाह्नवेला । यथा, —
“प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु । मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्णस्ततः परम् ॥ सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न कार- येत् । राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु ॥” इति तिथ्यादितत्त्वम् ॥



Correction: