शब्दकल्पद्रुमः
रागषाडवः || पुं, दाडिमद्राक्षायुक्तमुद्गयूषः । अस्य गुणाः । रुचिकारित्वम् । लघुपाकित्वम् । वात- पित्तकफाविरोधित्वञ्च । इति राजवल्लभः ॥ (यथा, सुश्रुते । १ । ४६ अध्याये कृतान्नवर्गे । “ज्ञेयः पथ्यतमश्चापि मुद्गयूषः कृताकृतः । स तु दाडिममृद्वीकायुक्तः स्याद्रागषाडवः । रुचिष्यो लघुपाकश्च दोषाणामविरोधकृत् ॥” तथास्य गुणाः । “लघवो वृंहणा वृष्याः हृद्या रोचनदीपनाः । तृष्णामूर्च्छाभ्रमच्छर्द्दिश्रमघ्ना रागषाडवाः ॥” इति च सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)