संस्कृत-शब्दकोशः

राघ राघवायनं

राघव

वाचस्पत्यम्

राघव ||‍ पु० रवोर्गोत्रापत्यम् अण् । १ रघोर्वंश्ये २ तत् प्रधाने श्रीरामे च ३ महामत्स्यभेदे ४ समुद्रे च मेदि० ।


शब्दकल्पद्रुमः

राघवः || पुं, (रघोरपत्यमिति । रघु + अण् ।)
रामचन्द्रः । (यथा, रघुः । १२ । ३२ । “रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्त्ता व्यालीव मलयद्रुमम् ॥” अजः । यथा, रघुः । ८ । १६ । “यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः ॥” दशरथः । यथा, रामायणे । २ । ६४ । १ । “वधमप्रतिरूपं तु महर्षेस्तस्य राघवः । विलपन्नेव धर्म्मात्मा कौशल्यामिदमब्रवीत् ॥” रघुवंशीयमात्रम् । यथा, तत्रैव । २ । ६४ । २५ । “अपि ह्यद्य कुलं न स्याद्राघवाणां कुतो भवान् ॥”)
समुद्र-महामत्स्यविशेषः । इति मेदिनी ॥ वे, ४८ ॥ (यथा, कृद्वृत्तौ प्रथमपादे दुर्गसिंहः । “अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः । तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति राघवः ॥”)



Correction: