शब्दकल्पद्रुमः
राघवायनं || क्ली (राघवस्य रामस्य चरितान्वितं अयनं शास्त्रम् ।) रामायणम् । यथा, — “सेतिहासपुराणानि राघवायनभारतम् । समाप्तिरहितान्येव सन्ति तानि श्रुतानि ते ॥” इत्यग्निपुराणे वामनप्रादुर्भावनामाध्यायः ॥