संस्कृत-शब्दकोशः

राजकशेरु राजकुमार

राजकीय

वाचस्पत्यम्

राजकीय ||‍ त्रि० राज्ञ इदम् छ कुक् च । राजसम्बन्धिकार्य्यादौ ।


शब्दकल्पद्रुमः

राजकीयः || त्रि (राज्ञ इदम् । राजन् + “राज्ञः कच ।” ४ । २ । १४० । इति छः ककारश्चान्ता- देशः ।)
राजसम्बन्धी । राजकस्यायं इत्यर्थे णीयप्रत्ययेन सिद्धः ॥ (यथा, कथासरित्सागरे ॥ ६२ । २२८ । “ततस्तदर्थं रात्रौ स राजकीयं सरो ययौ ॥”)



Correction: