वाचस्पत्यम्
राजकोषातकी || स्त्री राजप्रिया कोषातकी । (घियाझिङ्गा) लताभेदे मदनविनोदः ।
शब्दकल्पद्रुमः
राजकोषातकी || स्त्री (राजप्रिया कोषातकी ।)
झिङ्गाकविशेषः । घिया तोरै इति हिन्दी- भाषा ॥ तत्पर्य्यायः । हस्तिपर्णिका २ पीत- पुष्पिका ३ धामार्गवः ४ केशफला ५ महाजाली ६ सपीतकः ७ । अस्या गुणाः । शीतत्वम् । ज्वरघ्नत्वम् । कफवातलत्वञ्च । इति मदनविनोदः ॥