वाचस्पत्यम्
राजखर्जूरी || स्त्री राजप्रिया खर्जूरी । खर्जूरीभेदे (पिण्ड- खेजुर) राजनि० ।
शब्दकल्पद्रुमः
राजखर्ज्जूरी || स्त्री (राजप्रिया खर्ज्जूरी ।)
श्रेष्ठखर्ज्जूरी । पिण्डखर्ज्जूरिका । तत्पर्य्यायः । राजपिण्डा २ नृपपिण्डा ३ । अस्या गुणाः । गौल्यत्वम् । स्वादे हिमत्वम् । गुरुत्वम् । पित्त- दाहार्त्तिश्वासभ्रमनाशित्वम् । वीर्य्यवृद्धिदत्वञ्च । इति राजनिर्घण्टः