संस्कृत-शब्दकोशः

राजग्रीव राजचिह्नक

राजघ

वाचस्पत्यम्

राजघ ||‍ त्रि० राजानं हन्ति हन—क नि० । १ राजहन्तरि, २ तीक्ष्णे च जटा० “रराज नीरजनया स राजघः” नैष०


शब्दकल्पद्रुमः

राजघः || त्रि तीक्ष्णः । इति त्रिकाण्डशेषः ॥ (राजानं हन्तीति । हन् + “राजघ उप- संख्यानम् ।” ३ । २ । ५५ । इत्यस्य वार्त्तिकोक्त्या कप्रत्ययेन साधु ।)
राजहन्ता । यथा, —
“अनल्पदग्धारिपुरानलोज्ज्वलै- र्निजप्रतापैर्व्वलयं ज्वलद्भुवः । प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स राजघः ॥” इति नैवधे । १ । १० ॥



Correction: