संस्कृत-शब्दकोशः

राजजम्बू राजतरु

राजत

शब्दकल्पद्रुमः

राजतं || त्रि (रजतस्य विकारः । रजत + “प्राणि- रजतादिभ्योऽञ् ।” ४ । ३ । १५४ । इति अञ् ।)
रजतनिर्म्मितम् । यथा, —
“सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते । रजतस्य कथा वापि दर्शनं दानमेव वा ॥” इति मात्स्ये १७ अध्यायः ॥ रजते, क्ली ॥ (यथा, गो० रामायणे । ३ । ४९ । १ । “तं तु सीता मृगं दृष्ट्वा वने काञ्चनसुप्रभम् । हेमराजतचित्राभ्यां पार्श्वाभ्यां समलङ्कृतम् ॥”)



Correction: