शब्दकल्पद्रुमः
राजदण्डः || पुं, (राज्ञो दण्डः ।)
राजशासनम् । यथा, —
“ऊनैकादशवर्षस्य पञ्चवर्षाधिकस्य च । चरेद्गुरुः सुहृद्वापि प्रायश्चित्तं विशुद्धये ॥ ततो न्यूनतरस्यास्य नापराधो न पातकम् । न चास्य राजदण्डोऽपि प्रायश्चित्तं न विद्यते ॥” इति प्रायश्चित्ततत्त्वधृताङ्गिरोवचनम् ॥