वाचस्पत्यम्
राजधर्म्म || पु० राज्ञो धर्म्मः । राज्ञामवश्यकर्त्तव्ये प्रजापा- लनादौ कर्मणि । तमधिकृत्य कृतो ग्रन्थः अण् । भारत- शान्तिपर्वान्तर्गते व्यासप्रणीते ग्रन्थभेदे । राजधर्माश्च तत्र मानवे ७ अ० च उक्ता दृश्याः ।
शब्दकल्पद्रुमः
राजधर्म्मः || पुं, (राज्ञो धर्म्मः ।)
राज्ञः कर्त्तव्यं कर्म्म । यथा, —
“राजधर्म्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ ब्राह्मं प्राप्तेन संस्कारं क्षत्त्रियेण यथाविधि । सर्व्वस्यास्य यथान्यायं कर्त्तव्यं परिरक्षणम् ॥ अराजके हि लोकेऽस्मिन् सर्व्वतो विद्रुते भयात् । रक्षार्थमस्य सर्व्वस्य राजानमसृजत् प्रभुः ॥ इन्द्रानिलयमार्क्काणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्म्मितो नृपः । तस्मादभिभवत्येष सर्व्वभूतानि तेजसा ॥ तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च । न चैनं भूवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥ सोऽग्निर्भवति वायुश्च सोऽर्क्कः सोमः स धर्म्मराट् । स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । कुलं दहति राजाग्निः सपशुद्रव्यसञ्चयम् ॥ कार्य्यं सोऽवेक्ष्य शक्तिञ्च देशकालौ च तत्त्वतः । कुरुते धर्म्मसिद्ध्यर्थं विश्वरूपं पुनःपुनः ॥ यस्य प्रसादे पद्मा श्रीर्व्विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्व्वतेजोमयो हि सः ॥ तं यस्तु द्वेष्टि संमोहात् स विनश्यत्यसंशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥ तस्माद्धर्म्मं यमिष्टेषु स व्यवस्येन्नराधिपः । अनिष्टञ्चाप्यनिष्टेषु तं धर्म्मं न विचालयेत् ॥ तस्यार्थे सर्व्वभूतानां गोप्तारं धर्म्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत् पूर्व्वमीश्वरः ॥ तस्य सर्व्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्म्मान्न चलन्ति च ॥ तं देशकालौ शक्तिञ्च विद्याञ्चावेक्ष्य तत्त्वतः । यथार्हतः संप्रणयेन्नरेष्वन्यायवर्त्तिषु ॥ स राजा पुरुषो दण्डः स नेता शासिता च सः । चतुर्णामाश्रमाणाञ्च धर्म्मस्य प्रतिभूः स्मृतः ॥ दण्डः शास्ति प्रजाः सर्व्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्त्ति दण्डं धर्म्मं विदुर्ब्बुधाः ॥ समीक्ष्य स धृतः सम्यक् सर्व्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्व्वतः ॥ यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन् दुर्ब्बलान् बलवत्तराः ॥ अद्यात् काकः पुरोडाशं श्वावलिह्याद्धविस्तथा । स्वाम्यञ्च न स्यात् कस्मिंश्चित् प्रवर्त्तेताधरोत्तरम् ॥ सर्व्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात् सर्व्वं जगद्भोगाय कल्पते ॥ देवदानवगन्धर्व्वा रक्षांसि पतगोरगाः । तेऽपि भोगाय कल्पन्ते दण्डेणैव निपीडिताः ॥ दुष्येयुः सर्व्ववर्णाश्च भिद्येरन् सर्व्वसेतवः । सर्व्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥ तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् । समीक्ष्य कारिणं प्राज्ञं धर्म्मकामार्थकोविदम् ॥ तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्द्धते । कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ दण्डो हि सुमहत्तेजो दुर्द्धरश्चाकृतात्मभिः । धर्म्माद्बिचलितं हन्ति नृपमेव सबान्धवम् ॥ ततो दुर्गञ्च राष्ट्रञ्च लोकञ्च सचराचरम् । अन्तरीक्षगतांश्चैव मुनीन् देवांश्च पीडयेत् ॥ सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना । न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ शुचिना सत्यसन्धेन यथाशास्त्रानुसारिणा । प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तीर्य्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ अतस्तु विपरीतस्य नृपतेरजितात्मनः । संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ स्वे स्वे धर्म्मे निविष्टानां सर्व्वेषामनुपूर्ब्बशः । वर्णानामाश्रमाणाञ्च राजा सृष्टोऽभिरक्षिता ॥ तेन यद्यत् सभृत्येन कर्त्तव्यं रक्षता प्रजाः । तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्ब्बशः ॥ ब्राह्मणान् पर्य्युपासीत प्रातरुत्थाय पार्थिवः । त्रैविद्यवृद्धान् विदुषस्तिष्ठेत्तेषाञ्च शासने ॥ वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् । वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥ तेभ्योऽधिगच्छेद्विनयं विनीतात्मापि नित्यशः । विनीतात्मा हि नृपतिर्न विनश्यति कर्हिचित् ॥ बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः । वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥ वेणो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः । सुदासो यवनश्चैव सुमुखो निमिरेव च ॥ पृथुस्तु विनयाद्राज्यं प्राप्तवान् मनुरेव च । कुवेरञ्च धनैश्वर्य्यं ब्राह्मण्यञ्चैव गाधिजः ॥ त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीम् । आन्वीक्षिकीञ्चात्मविद्यां वार्त्तारम्भांश्च लोकतः ॥ इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ दश कामसमुत्थानि तथाष्टौ क्रोधजानि च । व्यसनानि दुरन्तानि प्रयत्नेन विवर्ज्जयेत् ॥ कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थधर्म्माभ्यां क्रोधजेष्वात्मनैव तु ॥ मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियो मदः । तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं साहसं द्रोह ईर्षासूयार्थदूषणम् । वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ द्वयोरप्येतयोर्म्मूलं यं सर्व्वे कवयो विदुः । तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ॥ पानमक्षास्त्रियश्चैव मृगया च यथाक्रमम् । एतत् कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥ दण्डस्य पातनञ्चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदा ॥ सप्तकस्यास्य वर्गस्य सर्व्वत्रैवानुषङ्गिणः । पूर्ब्बं पूर्ब्बं गुरुतरं विद्याद्ब्यसनमात्मवान् ॥ व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोऽधो व्रजति स्वर्य्यात्यव्यसनी मृतः ॥ मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्- गतान् । सचिवान् सप्त चाष्टौ वा प्रकुर्व्वीत परीक्षितान् ॥ अपि यत् सुकरं कर्म्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन किन्तु राज्यं महोदयम् ॥ तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ तेषां स्वं समभिप्रायमुपलभ्य पृथक् पृथक् । समस्तानाञ्च कार्य्येषु विदध्याद्धृतमात्मनः ॥ सर्व्वेषान्तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ नित्यं तस्मिन् समाश्वस्तः सर्व्वकार्य्याणि निःक्षि- पेत् । तेन सार्द्धं विनिश्चित्य ततः कर्म्म समारभेत् ॥ अन्यानपि प्रकुर्व्वीत शुचीन् प्राज्ञानवस्थितान् । सम्यगर्थसमाहर्त्तॄनमात्यान् सुपरीक्षितान् ॥ निर्व्वर्त्तेतास्य यावद्भिरिति कर्त्तव्यता नृभिः । तावतोऽतन्द्रितान् दक्षान् प्रकुर्व्वीत विचक्ष- णान् ॥ तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् । शुचीनाकरकर्म्मान्ते भीरूनन्तर्न्निवेशने ॥ दूतञ्चैव प्रकुर्व्वीत सर्व्वशास्त्रविशारदम् । इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ अनुरक्तः शुचिर्द्दक्षः स्मृतिमान् देशकालवित् । वपुष्मान् वीतभीर्व्वाग्मी दूतो राज्ञः प्रशस्यते ॥ आमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोषराष्ट्रे च दूते सन्धिविपर्य्ययौ ॥ दूत एव हि सन्धत्ते भिनत्त्येव च संहतान् ॥ दूतस्तत् कुरुते कर्म्म भिद्यन्ते येन वा न वा ॥ स विद्यादस्य कृत्येषु निगूढेङ्गितचेष्टितैः । आकारमिङ्गितं चेष्टा भृत्येषु च चिकीर्षितम् ॥ बुद्ध्वा च सर्व्वं तत्त्वेन परराजचिकीर्षितम् । तथा प्रयत्नमातिष्ठेद्यथात्मानं न पीडयेत् ॥ जाङ्गलं शस्यसम्पन्नमार्य्यप्रायमनाविलम् । रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥ सर्व्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । एषां हि बहुगुण्येन गिरिदुर्गं विशिष्यते ॥ त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्त्ताश्रयाप्सराः । त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः । तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ एकः शतं योधयति प्राकारस्थो धनुर्द्धरः । शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ॥ तत् स्यादायुधसम्पन्नं धनधान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥ तस्य मध्ये सुपर्य्याप्तं कारयेद्गृहमात्मनः । गुप्तं सर्व्वर्त्तुकं शुभ्रं जलवृक्षसमन्वितम् ॥ * ॥
तदध्यास्योद्वहेद्भार्य्यां सवर्णां लक्षणान्विताम् । कुले महति सम्भूतां हृद्यां रूपगुणान्विताम् ॥ पुरोहितञ्च कुर्व्वीत वृणुयादेव चर्त्विजम् । तेऽस्य गृह्याणि कर्म्माणि कुर्य्युर्व्वैतानिकानि च ॥ यजेत राजा क्रतुभिर्व्विविधैराप्तदक्षिणैः । धर्म्मार्थञ्चैव विप्रेभ्यो दद्याद्भोगान् धनानि च ॥ सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् । स्याच्चाम्नायपरो लोके वर्त्तेत पितृवन् नृषु ॥ अध्यक्षान् विविधान् कुर्य्यात् तत्र तत्र विप- श्चितः । तेऽस्य सर्व्वाण्यवेक्षेरन् नृणां कार्य्याणि कुर्ष्व- ताम् ॥ आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् । नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते ॥ न तं स्तेना न चामित्रा हरन्ति न च नश्यति । तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥ न स्कन्दते न व्यथते न विनश्यति कर्हिचित् । वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । प्राधीते शतसाहस्रमनन्तं वेदपारगे ॥ पात्रस्य हि विशेषेण श्रद्दधानतयैव च । अल्पं वा बहु वा प्रेत्य दानस्यावाप्यते फलम् ॥ समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः । न निवर्त्तेत संग्रामात् क्षात्त्रं धर्म्ममनुस्मरन् ॥ संग्रामेष्वनिवर्त्तित्वं प्रजानाञ्चैव पालनम् । शुश्रूषा ब्राह्मणानाञ्च राज्ञां श्रेयस्करं परम् ॥ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ न कूटैरायुधैर्हन्यात् युध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ न च हन्यात् स्थलारूढं न क्लीवं न कृता- ञ्जलिम् । न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ नायुधव्यसनप्राप्तं नार्त्तं नातिपरीक्षतम् । न भीतं न परावृत्तं सतां धर्म्ममनुस्मरन् ॥ यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः । भर्त्तुर्यद्दष्कृतं किञ्चित्तत् सर्व्वं प्रतिपद्यते ॥ यच्चास्य सुकृतं किञ्चिदमुत्रार्थमुपार्ज्जितम् । भर्त्ता तत् सर्व्वमादत्ते परावृत्तहतस्य तु ॥ * ॥
रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः । सर्व्वद्रव्याणि कुप्यञ्च यो यज्जयति तस्य तत् ॥ राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः । राज्ञा च सर्व्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ एषोऽनुपस्कृतः प्रोक्तो योधधर्म्मः सनातनः । अस्माद्धर्म्मान्न च्यवेत क्षत्त्रियो घ्नन् रणे रिपून् ॥ अलब्धञ्चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः । रक्षितं वर्द्धयेच्चैव वृद्धं पात्रेषु निःक्षिपेत् ॥ एतच्चतुर्व्विधं विद्यात् पुरुषार्थप्रयोजनम् । अस्य नित्यमनुष्ठानं सम्यक् कुर्य्यादतन्द्रितः ॥ अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया । रक्षितं वर्द्धयेद्वृद्ध्या वृद्धं दानेन निःक्षिपेत् ॥ * नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः । नित्यं संवृतसंवार्य्यो नित्यं छिद्रानुसार्य्यरेः ॥ नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । तस्मात् सर्व्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ अमाययैव वर्त्तेत न कथञ्चन मायया । बुद्ध्येतारिप्रयुक्ताञ्च मायां नित्यं स्वसंवृतः ॥ नास्य च्छिद्रं परो विद्याद्बिद्याच्छ्रिद्रं परस्य तु । गूहेत् कूर्म्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ वकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् । वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ॥ एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः । तानानयेद्बशं सर्व्वान् सामादिभिरुपक्रमैः ॥ यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः । द्दण्डेनैव प्रसह्यैताञ्छनकैर्व्वशमानयेत् ॥ सामादीनामुपायानां चतुर्णामपि पण्डिताः । सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ यथोद्धरति निर्द्दाता कक्षं धान्यञ्च रक्षति । तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ॥ मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया । सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः ॥ शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् । सुसंगृहोतराष्ट्रो हि पार्थिवः सुखमेधते ॥ द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् । तथा ग्रामशतानाञ्च कुर्य्याद्राष्ट्रस्य संग्रहम् ॥ ग्रामस्याधिपतिं कुर्य्याद्दशग्रामपतिं तथा । विंशतीशं शतेशञ्च सहस्रपतिमेव च ॥ ग्रामे दोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् । शंसेद्ग्रामदशेशाय दशेशो विंशतीशिनम् ॥ विंशतीशस्तु तत्सर्व्वं शतेशाय निवेदयेत् । शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् ॥ यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥ दशो कुलन्तु भुञ्जीत विंशी पञ्च कुलानि च । ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ तेषां ग्राम्याणि कार्य्याणि पृथक् कार्य्याणि चैव हि । राज्ञोऽन्यः सचिवः स्निग्धस्तानिपश्येदतन्द्रितः ॥ नगरे नगरे चैकं कुर्य्यात् सर्व्वार्थचिन्तकम् । उच्चैः स्थानं घोररूपं नक्षत्राणामिव ग्रहम् । सताननुपरिक्रामेत् सर्व्वानेव सदा स्वयम् । तेषां वृत्तं परिणयेत् सम्यग्राष्ट्रेषु तच्चरैः ॥ राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ ये कार्य्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः । तेषां सर्व्वस्वमादाय राजा कुर्य्यात् प्रवासनम् ॥ राजकर्म्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । प्रत्यहं कल्पयेद्वृत्तिं स्थानकर्म्मानुरूपतः ॥ पणो देयोऽवकृष्टस्य षडूत्कृष्टस्य वेतनम् । षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः ॥ * ॥
क्रयविक्रयमध्वानं भक्तञ्च सपरिव्ययम् । योगक्षेमञ्च संप्रेक्ष्य बणिजो दापयेत् करान् ॥ यथा फलेन युज्येत राजा कर्त्ता च कर्म्मणाम् । तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ॥ यथाल्पाल्पमदन्त्याद्यं वार्य्योको वत्स षट्पदाः । तथाल्पाल्पो गृहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः ॥ पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः । धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥ आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् । गन्धौषधिरसानाञ्च मूलपुष्पफलस्य च ॥ पत्रशाकतृणानाञ्च वैदलस्य च चर्म्मणाम् । मृण्मयानाञ्च भाण्डानां सर्व्वस्याश्ममयस्य च ॥ म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् । न च क्षुधास्य संसीदेत् श्रोत्रियो विषये वसन् ॥ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥ श्रुतवित्ते विदित्वास्य वृत्तिं धर्म्म्यां प्रकल्पयेत् । संरक्षेत् सर्व्वतश्चैनं पिता पुत्त्रमिवौरसम् ॥ संरक्ष्यमाणो राज्ञा यं कुरुते धर्म्ममन्वहम् । तेनायुर्व्वर्द्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ यत्किञ्चिदपि वर्षस्य दापयेत् करसंज्ञितम् । व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ कारुकान् शिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः । एकैकं कारयेत् कर्म्म मासि मासि महीपतिः ॥ नोच्छिन्द्यादात्मनो मूलं परेषाञ्चातितृष्णया । उच्छिन्दन् ह्यात्मनो मूलमात्मानं तांश्च पीड- येत् ॥ तीक्ष्णश्चैव मृदुश्च स्यात् कार्य्यं वीक्ष्य मही- पतिः । तीक्ष्णश्चैव मृदुश्चैव राजा भवति सम्मतः ॥ अमात्यमुख्यं धर्म्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् । स्थापयेदासने तस्मिन खिन्नः कार्य्येक्षणे नृणाम् ॥ एवं सर्व्वं विधायेदमिति कर्त्तव्यमात्मनः । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ विक्रोशन्त्यो यस्य राष्ट्राद्ध्रियन्ते दस्युभिः प्रजाः । संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ क्षित्त्रियस्य परो धर्म्मः प्रजानामेव पालनम् । निर्द्दिष्टफलभोक्ता हि राजा धर्म्मेण युज्यते ॥ उत्थाय पश्चिमे यामे कृतशौचः समाहितः । हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत् स शुभां सभाम् ॥ तत्र स्थितः प्रजाः सर्व्वाः प्रतिनन्द्य विसर्ज्जयेत् । विसृज्य च प्रजाः सर्व्वा मन्त्रयेत् सह मन्त्रिभिः ॥ गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः । अरण्ये निःशलाके वा मन्त्रयेदविभावितः ॥ यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः । सकृत्स्नां पृथिवीं भुङ्क्ते कोषहीनोऽपि पार्थिवः ॥ जडमूकान्धवधिरांस्तिर्य्यग्योनान् वयोगतान् । स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकालेऽपसारयेत् ॥ भिन्दन्त्यवमता मन्त्रं तैर्य्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥ मध्यन्दिनेऽर्द्धरात्रे वा विश्रान्तो विगतक्लमः । चिन्तयेद्धर्म्मकामार्थान् सार्द्धं तैरेक एव वा ॥ परस्परविरुद्धानां तेषाञ्च समुपार्ज्जनम् । कन्यानां सम्प्रदानञ्च कुमाराणाञ्च रक्षणम् ॥ दूतसंप्रेषणञ्चैव कार्य्यशेषं तथैव च । अन्तःपुरप्रचारञ्च प्रणिधीनाञ्च चेष्टितम् ॥ कृत्स्नं चाष्टबिधं कर्म्म पञ्चवर्गञ्च तत्त्वतः । अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ मध्यमस्य प्रचारञ्च विजिगीषोश्च चेष्टितम् । उदासीनप्रचारञ्च शत्रोश्चैव प्रयत्नतः ॥ * ॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः । अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः । प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः ॥ अनन्तरमरिं विद्यादरिसेविनमेव च । अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥ तान् सर्व्वानभिसन्दध्यात् सामादिभिरुपक्रमैः । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ सन्धिञ्च विग्रहञ्चैव यानमासनमेव च । द्वैधीभावं संश्रयञ्च षड्गुणांश्चिन्तयेत् सदा ॥ आसनञ्चैव यानञ्च सन्धिं विग्रहमेव च । कार्य्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥ सन्धिन्तु द्विविधं विद्याद्राजा विग्रहमेव च । उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥ समानयानकर्म्मा च विपरीतस्तथैव च । तदात्वायतिसंयुक्तः सन्धिर्ज्ञेयो द्विलक्षणः ॥ स्वयंकृतश्च कार्य्यार्थमकाले काल एव वा । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ एकाकिनश्चात्ययिके कार्य्ये प्राप्ते यदृच्छया । संहतस्य च मित्रेण द्बिविधं यानमुच्यते ॥ क्षीणस्य चैव क्रमशो दैवात् पूर्ब्बकृतेन वा । मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ बलस्य स्वामिनश्चैव स्थितिः कार्य्यार्थसिद्धये । द्विविधं कीर्त्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ अथसम्पादनार्थञ्च पीड्यमानस्य शत्रुभिः । साधुषु व्यपदेशार्थं द्विविधः संश्रयः स्मृतः ॥ * ॥
यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः । तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत् ॥” तदात्वे तत्काले । “यदा प्रहृष्टा मन्येत सर्व्वास्तु प्रकृतीर्भृशम् । अत्युच्छ्रितं तथात्मानं तदा कुर्व्वीत विग्रहम् ॥ यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । परस्य विपरीतञ्च तदा यायाद्रिपुं प्रति ॥ यदा तु स्यात् परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥ मन्येतारिं यदा राजा सर्व्वथा बलवत्तरम् । तदा द्विधा बलं कृत्वा साधयेत् कार्य्यमात्मनः ॥ यदा परबलानान्तु गभनीयतमो भवेत् । तदा तु संश्रयेत् क्षिप्रं धार्म्मिकं बलिनं नृपम् ॥ निग्रहं प्रकृतीनाञ्च कुर्य्याद्योऽरिबलस्य च । उपसेवेत तं नित्यं सर्व्वयत्नैर्गुरुं यथा ॥ यदि तत्रापि संपश्येत् दोषं संश्रयकारितम् । सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ सर्व्वोपायैस्तथा कुर्य्यान्नीतिज्ञः पृथिवीपतिः । यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥ आयतिं सर्व्वकार्य्याणां तदात्वञ्च विचारयेत् । अतीतानाञ्च सर्व्वेषां गुणदोषौ च तत्त्वतः ॥ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । अतीते कार्य्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ यथैनं नाभिसन्दध्युर्म्मित्रोदासीनशत्रवः । तथा सर्व्वं संविदध्यादेष सामासिको नयः ॥ यदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः । तदानेन विधानेन यायादरिपुरं शनैः ॥ मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः । फालगुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् । तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः ॥ कृत्वा विधानं मूले तु यात्रिकञ्च यथाविधि । उपगृह्यास्पदञ्चैव चारान् सम्यग्विधाय च ॥ संशोध्य त्रिविधं मार्गं षड्विधञ्च बलं स्वकम् । साम्परायिककल्पेन यायादरिपुरं शनैः ॥ शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ दण्डव्यूहेन तन्मार्गं यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ यतश्च भयमाशङ्केत्ततो विस्तारयेद्वलम् । पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ सेनापतिबलाध्यक्षौ सर्व्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्केत् प्राचीं तां कल्पयेद्दिशम् ॥ गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः । स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥ * ॥
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा । वृक्षनुल्मावृते चापैरसिचर्म्मायुधैः स्थले ॥ कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालान् शूरसेनजान् । दीर्घान् लघूंश्चैव नरानग्रानीकेषु योधयेत् ॥ प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक् परीक्षयेत् । चेष्टाश्चैव विजानीयादरीन् योधयतामपि ॥ उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् ॥ भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा । समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥ उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् । युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ साम्ना दानेन भेदेन समस्तैरथवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥ अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । पराजयश्च संग्रामे तस्माद्युद्धं विवर्ज्जयेत् ॥ त्रयाणामप्युपायानां पूर्व्वोक्तानामसम्भवे । तथा युध्येत संयत्तो विजयेत रिपून् यथा ॥ * ॥
जित्वा सम्पूजयेद्देवान् ब्राह्मणांश्चैव धार्म्मिकान् । प्रदद्यात् परिहारांश्च ख्यापयेदभयानि च ॥ सर्व्वेषान्तु विदित्वैषां समासेन चिकीर्षितम् । स्थापयेत्तत्र तद्बश्यं कुर्य्याच्च समयक्रियाम् ॥ प्रमाणानि च कुर्व्वीत तेषां धर्म्म्यान् यथो- दितान् । रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥ आदानमप्रियकरं दानञ्च प्रियकारकम् । अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ॥ सर्व्वं कर्म्मेदमायत्तं विधाने दैवमानुषे । तयोर्द्दैवमचिन्त्यन्तु मानुषे विद्यते क्रिया ॥ सह वापि व्रजेद्युक्तः सन्धिं कृत्वा प्रयत्नतः । मित्रं हिरण्यं भूमिं वा सम्पश्यंस्त्रिविधं फलम् ॥ पार्ष्णिग्राहञ्च संप्रेक्ष्य तथाक्रन्दञ्च मण्डले । मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥” आक्रन्दः पार्ष्णिग्राहस्य नियामको राजा । “हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते । यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥ * ॥
धर्म्मज्ञञ्च कृतज्ञञ्च तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥ प्राज्ञं कुलीनं शूरञ्च दक्षं दातारमेव च । कृतज्ञं धृतिमन्तञ्च कष्टमाहुररिं बुधाः ॥ आर्य्यता पुरुषज्ञानं शौर्य्यं करुणवेदिता । स्थौललक्ष्यञ्च सततमुदासीनगुणोदयः ॥” स्थौललक्ष्यं बहुप्रदत्वम् । “क्षेम्यां शस्यप्रदां नित्यं पशुवृद्धिकरीमपि । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ सह सर्व्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् । संयुक्तांञ्च वियुक्तांश्च सर्व्वोपायान् सृजेद्बुधः ॥ उपेतारमुपेयञ्च सर्व्वोपायांश्च कृत्स्नशः । एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥” उपेतारं आत्मानम् । उपेयं प्राप्तव्यम् ॥ * ॥
“एवं सर्व्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः । व्यायामाप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत् ॥ तत्रात्मभूतैः कालज्ञैरहार्य्यैः परिचारकैः । सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्व्विषापहेः ॥ विषघ्नैरगदैश्चास्य सर्व्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥ परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः । वेशाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ एवं प्रयत्नं कुर्व्वीत यानशय्यासनाशने । स्नाने प्रसाधने चैव सर्व्वालङ्कारकेषु च ॥ भुक्तवात् विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं पुनः कार्य्याणि चिन्तयेत् ॥ अलङ्कृतश्च संपश्येदायुधीयं पुनर्ज्जनम् । वाहनानि च सर्व्वाणि शस्त्राण्याभरणानि च ॥ सन्ध्याञ्चोपास्य शृणुयादन्तर्व्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनाञ्चैव प्रणिधीनाञ्च चेष्टितम् ॥ गत्वा कक्षान्तरं त्वन्यत् समनुज्ञाप्य तं जनम् । प्रविशेद्भोजनार्थञ्च स्त्रीवृतोऽन्तःपुरं पुनः ॥ तत्र भुक्त्वा पुनः किञ्चित्तूर्य्यघोषैः प्रहर्षितः । संविशेत्तु यथाकालमुत्तिष्ठेच्च गतक्लमः ॥ एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः । अस्वस्थः सर्व्वमेतत्तु भृत्येषु विनियोजयेत् ॥” इति मानवे ७ अध्यायः ॥ * ॥
कालीकापुराणोक्तराजधर्म्मः ८५ । ८६ अध्या- ययोः द्रष्टव्यः । महाभारतोक्तराजधर्म्मः शान्ति- पर्व्वणि द्रष्टव्यः । पद्मपुराणोक्तराजधर्म्मः स्वर्ग- खण्डे १३८ अध्याये द्रष्टव्यः ॥